SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २०८ परशुरामकल्पसूत्रम् आचार्य मध्यतः कृत्वा विशेत् ज्येष्ठक्रमेण तु । ज्येष्ठेषु सत्सु न विशेत् आचार्यस्य समीपतः ॥ न साम्येन गुरोः स्थेयं स्त्रीणां मध्ये तथैव च । नाग्रतस्तु गुरोर्देवि नाज्ञामुल्लङ्घय वै गुरोः ॥ एवं ज्ञात्वा संप्रदायं निषीदेन्मण्डले शिवे । आचार्योऽपि तथा ज्येष्ठानुत्थाय प्रणिपत्य च ॥ तेषामाज्ञां गृहीत्वैव स्वासनेऽथ समाविशेत् । तस्मै च पात्रं दद्याद्वै ज्येष्ठायोत्थाय साधकः ॥ ज्येष्ठान् कनिष्ठोऽपि देवि गृह्णीयादुत्थितो नमन् । सर्वान् संपूज्य पात्राणि दातव्यानि महेश्वरि ॥ असंपूज्य शिष्यमपि यो दद्यात् पात्रमम्बिके । तस्मै कुप्यति सा देवी यस्मात् सर्व हि तन्मयम् ॥ प्रक्षाळ्य पात्रं पुष्पादियुतमाच्छाद्य यत्नतः । आचार्याय तथा दद्यात् नमस्कुर्याच्च भक्तितः ॥ स्वीकृत्य तत्प्रसादं वै जप्त्वा स्तोत्रादिकं पठेत् ॥ इति ॥ त्रिपुरार्णवे शक्त्या स्वर्णादिसंयुक्तमर्पयेत् पात्रमम्बिके । यत्किंचिद्वाऽपि पात्रस्थं दत्वाऽनन्तफलं लभेत् ॥ इति ॥ सुवासिनीनां विशेषो योगिनीतन्त्रे एवं सन्तर्प्य हुत्वा तु सुवासिन्यः सशेषकम् । दद्युस्तृतीयं तुर्य वा पात्रं पीठाधिकारिणे ॥ इति ॥ त्रिपुरार्णवे कश्चिद्विशेषः वीरात् ज्येष्ठात् तथाऽऽचार्यात् ग्राह्यं शेषं च चर्वणम् । तदभावेऽपि चान्यस्मात् ज्येष्ठात् ग्राह्यं नगात्मजे ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy