SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या भट्टिकाव्ये-V. 81. दीव्यमानं शितान् बाणानस्यमान महागदाः । निघानं शात्रवान् राम कथं त्वं नावगच्छसि ॥ 16 बाणानिति करणस्य कर्मत्वम् । मस्मिन्नेव ग्रन्थे श्लो० 304. विषयान्दीव्यतीति करणे कर्मत्वम् । माघे-VIII. 32. मुग्धत्वादविदितकैतवप्रयोगा गच्छन्त्यः सपदि पराजय तरुण्यः । ताः कान्नैः सह करपुष्करेरिताम्बु व्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥ 317 ॥ व्यात्युक्षीमिति कर्मत्वम् । भट्टिकाव्ये-XVII. 102. अस्तृगादधिकं समस्ततोऽदेवत सायकैः । अक्लाम्यद्रावणस्तस्य पूतो रथमनाशयत् ॥ 318 ।। * सायकैरिति करणे तृतीया। ५६३ । अपवर्गे तृतीया । (२. ३.६; अपवर्गः फलपाप्तिस्तस्यां द्योत्यायां काल ध्वनोरत्यन्तसंयोगे तृतीय' स्यात् । अहा क्रोशेन वानुवाकोऽधीतः । भट्टिकाव्ये-VIII. 95. * संवत्सरेण यान्त्येव दुःखशीला अपि स्त्रियः । ___ मार्दवं प्रार्थिताः पुंसां व्यहाद्दोग्ध्रयोऽपि सस्त्रियः ॥ 319 ॥ संवत्सरेणेति तृतीया । * मुद्रितपुस्तके श्लोकोऽयं नोपलभ्यते ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy