SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ ६३३ पाणिनिसूत्रव्याख्या आशुतरं शीघ्रतरम् । आशुशब्दादनव्ययाचरम् । अतः आमुन । 'क्लीबे शीघ्राद्यसत्वे स्यात् त्रिष्वेषां सत्वगामि यत् ' I. i. 67. इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो० 988. द्रुततरम् । पूर्ववत् । कुमारसंभवे-VII. 68. अनेन सम्बन्धमुपेत्य दिष्ट्या मनोरथप्रार्थितमीश्वरेण । मूर्धानमालि क्षितिधारणोचमुचैस्तरं वक्ष्यति शैलराजः ॥ 1845 ॥ क्षितिधारणोच्चमुन्नतं मूर्धानमुचैस्तरमुन्नततरम् । उच्चैरित्यव्ययातरम् । मूनों द्रव्यत्वान्नामुः । अनघराघवे-II. 81. भूयस्तराणि यदमूनि तमखिनीषु ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः । संध्यानलेन भृशमम्बरमूषिकाया मावर्ति तैरुङभिरेव भृतोऽयमिन्दुः ।। 1846 ॥ भूयस्तराणि उडूनि । नामुः। माघे-VII. 48. मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोभरस्य । उपरि निरवलम्बन प्रियस्य न्यपतदथोच्चतरोचिचीषयान्या ।। 1847 ।। असहतरा । पचाद्यजन्तात् नसमासात्तरप् । 'तसिलादि' (सू. 836) इति पुंवद्भावः । उच्चतराणामत्युन्नतकुसुमानाम् । २००५ । द्विवचनविभज्योपपदे तरबीयसुनौ । ( ५. ३. ५७) द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुः लघुतरः लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः पटीयांसः । २००६ । अजादी गुणवचनादेव । (५. ३. ५८)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy