SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ६२४ সিনিযুক্ত अस्मिन्नेव ग्रन्थे श्लो0 460. दण्डकां दक्षिणेन । दण्डकाया दक्षिणतः । अनेन एन । 'एनपा द्वितीया' (सू. 610) इति द्वितीया । दण्डकाया दक्षिणत इत्यत्र 'दक्षिणोत्तराभ्यामतसुच्' (सू. 1978) इत्यतसुचू । 'षष्ठयतसर्थप्रत्ययेन' (सू, 609 ) इति तद्योगे षष्ठी। अस्मिन्नेव ग्रन्थे श्लो० 461. धनपतिगृहानुत्तरेण कुबेरगृहेभ्यः उत्तरस्मिनदूरे प्रदेशे । अनेन एनम् । अव्ययमेतत् । तद्योगे द्वितीया । चम्पूभारते--V1. 85. ग-तत्र दक्षिणेन पुरं व्यग्रतरसैन्येन काल्यमान क्वचिदरुणतया निमग्नजमदमिकुमारोष्णनिःश्वासवेगविलुलितविचित्रवीचीप्रपञ्चमिव स्यमन्तपञ्चकम् , क्वचिन्नीलतया मदकण्डूलवेतण्डशुण्डाविधूनितविटपमालमिव तमालकाननम् , कचिद्धवलतया मन्दरगिरिमथनविक्षोभितफेनकूटमिव क्षीरोदमध्यमुन्नमितलाङ्गलमुद्गमितहुङ्कारमुल्ललितधूलीकमुद्दामघण्टारवं गोधन दक्षिणेन पुरं व्यग्रतरसैन्येन तेन काल्यमानं निशम्य सेनाकुम्भिकुलगम्भीर बंहितारम्भैर्मन्दिराग्रसिंहप्रतिच्छन्दवइमुखकन्दरमौननियम विभिन्दन्ननुकूलपवमानपुरोनाटित परिभटजीविताहरणाय वैवस्वतमिवाह्वयद्भिः केतुदण्डैः परिमोटितगगनतटिनीतटविटपिवाटो विराटोऽपि रणप्रयाणारम्भमाटीकत।। 1823 ।। दक्षिणेन पुरम् । एनम् । द्वितीया । अस्मिन्नेव ग्रन्थे ग° 462. लकां पूर्वेण । सुवेलं पश्चिमेन । अनर्घराघवे-VII. 125. ग-एते भगवत्यौ भूमिदेवानां मूलायतनमन्तर्वेदी पूर्वेण कृष्णागरुमलयजमयमङ्गरागमिवान्योन्यस्य कुर्वाणे कलिन्दकन्यामन्दाकिन्यौ सङ्गच्छेते ॥ 1824 ॥ अन्तर्वेदी पूर्वेण । अनर्घराघवे-II. 14. ग-नन्वेतावेव यज्ञवाटमुत्तरेण विहारभूमिषु क्रीडतः । तदुपेत्य निःशङ्कमवलोकय ॥ 1826 || यज्ञवाट ‘एनपा द्वितीया' (सू. 610) इति षष्ठ्यर्थे द्वितीया। उत्तरेण । अनेन इति सप्तम्यर्थे एनम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy