SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ ॥ अथ प्रागिवीयप्रकरणम् ॥ १९७४ । दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः । (५. ३. २७) अस्मिन्नेव ग्रन्थे श्लो० 1438. उदक् । उदीची दिशं प्रतीत्यर्थः । अस्तातिप्रत्ययस्य ' अञ्चेलृक्' (सू. 1980) इति लुक् । 'लुक् तद्धितलुकि ' (सू. 1408) इति स्त्रीप्रत्ययस्यापि लुक् । अस्मिन्नेव ग्रन्थे श्लो० 1448. प्रत्यक् पश्चिमद्वारम् । पूर्ववल्लुक् । १९७५ । पूर्वाधरावराणामसिपुरधवश्चैषाम् । (५. ३. ३९) एभ्योऽस्तात्यर्थेऽसिपत्ययः स्यात् । तद्योगे चैषां क्रमात् पुर् , अध् , अव् इत्यादेशाः स्युः। १९७६ । अस्ताति च । (५. ३. ४०) अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्या पूर्वस्याः पूर्वा वा दिक् पुरः, पुरस्तात् । अधः, अधस्तात् । अवः, अवस्तात् । अस्मिन्नेव अन्थे श्लो० 988. पुरस्तात् पूर्वस्यां दिशि । अस्मिन्नेव ग्रन्थे श्लो० 626. पुरस्तात् पूर्वस्यां दिशि । अनेन पूर्वशब्दात्ससभ्यर्थात् अस्तातिप्रत्ययः । पूर्वस्य पुरादेशश्च । १९७७ । विभाषावरस्य । (५. ३. ४१) अवरस्य अस्तातौ परे अस् स्याद्वा । अवस्तात् अवरस्तात् । १९७८ । दक्षिणोत्तराभ्यामतसुच् । (५. ३. २८) मस्तातेरपवादः । दक्षिणतः । उत्तरतः । षष्टयतसर्थप्रत्ययेन' ('सू. 609) इति षष्ठी।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy