SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या भट्टिकाव्ये -V. 23. प्रत्यूचे राक्षसेन्द्ररतामाश्वसिहि विभेषि किम् । त्यज नक्तंचरि क्षोभ वाचाटे रावणो ह्यहम् ।। 1797 ॥ हे वाचाटे बहुभाषिणि । अस्मिन्नेव ग्रन्थे श्लो० 1360. वाचाटाः कृता वाचाटिताः । वाचाटशब्दात् तत्करोतीति ण्यन्ताकर्मणि क्तः । अनर्घराघवे-I. 11. धातुश्चतुर्मुखीकण्ठशृङ्गाटकविहारिणीम् । नित्यं प्रगल्भवाचालामुपतिष्ठे सरस्वतीम् ॥ 1798 ।। वाचालामुत्कृष्टभाषिणीमिति केचित् । 'आलजाटचौ (सू. 1931) इति योगविभागात्प्रशंसायामप्यालजाटचावित्याहुः । १९३२ । स्वामिन्नैश्वर्ये । (५. २. १२६) ऐश्वर्यवाचकात्स्वशब्दात् मत्वर्थे आमिनच् । स्वामी । अस्मिन्नेव ग्रन्थे श्लो० 974. स्वमस्यास्तीति स्वामी ईश्वरः । निपातः । अस्मिन्नेव ग्रन्थे श्लो० 1106 स्वामी। १९३३ । अर्शआदिभ्योऽच् । (५. २. १२७) अस्यिस्य विद्यन्ते अर्शसः । अर्शादिः-५. ३९. । आकृतिगणोऽयम् । अस्मिन्नेव ग्रन्थे श्लो० 1201. कावाद ईषद्वादो वाकलहः । 'ईषदर्थे' (सू. 1081) इति कुशब्दस्य कादेशः । तद्वति कावादे । अच् । अस्मिन्नेव ग्रन्थे श्लो० 383. पीतं पानमस्यास्तीति पीतः । पीतवानित्यर्थः । मच् । १९३४ । द्वन्द्वोपतापगात्प्राणिस्थादिनिः । (५. २. १२८)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy