SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या भट्टिकाव्ये-IV. 21. तामुवाच सगौष्ठीने वने स्त्रीपुंसभीषणे । असूर्यपश्यरूपा त्वं किमभीरुररायसे ।। 206 !! अभीरुः शूर्पणखा । अमनुष्यत्वादुङ् न । वा० अप्राणिजातेश्वारवादीनामुपसंख्यानम् । (2502) भट्टिकाव्ये-- VIII. 65. मन्दायमानगमनो हरितायत्तरूं कपिः । द्रुमैः शकशकायद्भिर्मारुतेनाट सर्वतः ।। 207 ।। हरितायन्तस्तरवो यस्यां तां हरितायत्तरूम् । अङ् । ५२२ । बाह्वन्तात्संज्ञायाम् । (४. १. ६७) स्त्रियामुङ् स्यात् । भद्रबाहूः । संज्ञायां किम् । वृत्तबाहुः । ५२३ । पङ्गोश्व । (४. १. ६८) वा । श्वशुरस्योकाराकारलोपश्च । (5039) चादूङ् । पुयोगलक्षणस्य ङीषोऽपवादः । रघुवंशे-XIV. 18. श्वश्रूजनानुष्ठितचारवेषां कीरथस्थां रघुवीरपत्नीम् । प्रासादवातायनदृश्यरन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः ॥ 208 ॥ ५२४ । ऊरूत्तरपदादौपम्ये । (४. १. ६९) इत्यूप्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो० 17. रम्भे कदलीस्तम्भाविव ऊरू यस्याः सा रम्भोरूः। अस्मिन्नेव ग्रन्थे श्लो० 20. द्विरदनासेव ऊरू यस्याः सा द्विरदनासोरूः । माघे-VI. 24. निदधिरे दयितोरसि तत्क्षण स्वपनवारितुषारभृतस्तनाः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy