SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ६०० पाणिनिसूत्रव्याख्या १९२२ । अत इनिठनौ । ( ५. २, ११५) दण्ड: अदन्तः । दण्डी । दण्डिकः । माधे--I. 17. विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः । ग्रहीतुमार्यान् परिचर्यया मुहु ___ महानुभावा हि नितान्तमर्थिनः ।। 1775 ॥ अर्थिनः अभिलाषवन्तो हि । अर्थनमर्थाभिलाष एषामस्तीति मत्वर्थीय इनिः न तु णिनिः । कृद्वत्तेस्तद्धितवृत्तिर्बलीयसीति भाष्ये उक्तत्वात् । ' अर्थाच्चासन्निहिते' (सू. 1941 ) अर्थी । सन्निहिते त्वर्थवान् । अस्मिन्नेव ग्रन्थे श्लो. 1506. श्वगणा विद्यन्ते येषामिति श्वगणिनः । इनिः । अनवराघवे-VI. 81. भूयिष्ठानि मुखानि चुम्बति भुभयोभिरालिङ्गयते ___ चारित्रव्रतदेवतापि भवता कान्तेन मन्दोदरी । हा लम्बोदर कुम्भमौक्तिकमणिस्तोमर्ममेकावली शिल्पे वागधमर्णिकस्य भवतो लकेन्द्र निद्रारसः ॥ 1776 ।। अधमं च तदृणं चाधमर्णम् । तदस्यास्तीति अधमर्णिकः । ठन् । अस्मिन्नेव ग्रन्थे श्लो. 619. रसिका रसवती । ठन् । ___ अस्मिन्नेव ग्रन्थे श्लो० 91. लावण्य कान्तिविशेषोऽस्यास्तीति लावणिकं लावण्यवत् । ठनि इकः । 'हलस्तद्धितस्य ' (सू. 472 ) इति यकारलोपः । माघे-XII 20. व्यावृत्तवक्त्र खिलैश्चमूचरैरृजद्भिरेव क्षणमीक्षिताननाः । वल्गद्गरीयःकुचकम्प्रकचुकं ययुस्तुरङ्गाधिरुहोऽवरोधिकाः ॥ 1777 ॥ अवरोध: आसामस्तीत्यवरोधिकाः अन्तःपुरस्त्रियः । ठन् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy