SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ५९४ पाणिनिसूलव्याख्या चम्पूरामायणे - I. 47. इति विविधरसाभिः कौशिकव्याहताभिः श्रुतिपथमधुराभिः पावनीभिः कथाभिः । गलितगहनकृच्छ्रं गच्छतोर्दाशरथ्यो स्समकुचदिव सद्यस्तादृशं मार्गदैर्घ्यम् ॥ 1755 || मधुराभिः । रः । अस्मिन्नेव ग्रन्थे लो० 1446. मुखरः । चम्पूभारते – IV. 74. मुनिरेष यदाभ्ययाद्वराहं मुखरज्यालतिको जवाज्जिघांसुः । शबरो ददृशे तदाभिधावन् धनुराकृष्य सहानुयायिवर्णैः ॥ 1756 ॥ मुखरा शब्दायमाना । चम्पूरामायणे - I. 16. ग—इति प्रणम्योत्थितानेतान् स्तुतिरवमुखरित हरिन्मुखान् हरिहयप्रमुखानखि लानमरानरुणारुणतामरसविला सचोरैर्लोचनमरी चिसन्तानैरानन्दयन् अरविन्दलोचनः स्फुटम भाषत ॥ 1757 ॥ मुखरितं मुखरं कृतम् । मुखरशब्दात् तत्करोती ण्यन्तात् कर्मणि क्तः । अस्मिन्नेव ग्रन्थे श्लो० 35. कुरुकुञ्जरः कुरुश्रेष्ठः । कुञ्जरो गजः । अस्मिन्नेव ग्रन्थे श्लो° 577. अनन्तकविकुञ्जरः । अस्मिन्नेव ग्रन्थे श्लो० 288. पाण्डुरम् । रप्रत्ययः । माघे—XVIII. 9. उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चर्मण्डलत्वं दधन्ति । आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्या रोहैः कुञ्जराणां शिरांसि ||1758| कुञ्जराणां गजानाम् । १९१५ । द्युभ्यां मः । (५, २. १०८ )
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy