SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ मत्वाकरगन् अन्वग्रहीत्प्रणमतः शुभदृष्टिपातै र्वार्तानुयोगमधुराक्षरया च वाचा ॥ 1748 || जटिलान् जटावतः । इलच् । जटाल इत्यत्र 'प्राणिस्थाहातो लजन्यमान्याम् । (सू. 1908 ) इति लच् । १९०८ । प्रज्ञाश्रद्धाचास्यो णः । (५. २. १०१) प्राज्ञः । श्राद्धः । आर्चः। . वा । वृत्तेश्च । (3135.) वार्तः । अनर्घराधवे-V. 40. एष त्रैवर्ण्यमात्रव्यवसितजगतो भार्गवस्यास्त्रगर्भा दाकृष्टक्षत्रजातिस्त्वमसि पथि गिरामद्य नस्सुप्रभातम् । कक्षोष्मस्वेदसद्यःशमितदशमुखास्फोटकण्डूविकारो वीरश्राद्धो भुजस्त्वां परिचरतु चिरं चक्षुषी नन्दतां च ॥ 1749 ।। श्राद्धः श्रद्धायुक्तः । णः । १९०९ । तपस्सहस्राभ्यां विनीनी । (५. २. १०२) तपस्वी । सहस्री। रघुवंशे-XI. 12. नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् । दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभवोस्तपस्विनः ।। 1750 || तपः एषामस्तीति तपस्विनः । विनिः । अस्मिन्नेव ग्रन्थे श्लो० 1185. तपस्विनः ऋषः । विनिः । १९१० । अण् च । (५. २. १०३) तापसः । साहस्रः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy