SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ५६० पाणिनिसूत्रव्याख्या अस्मिन्नेद ग्रन्थे श्लो० 327. कर्णयोर्मले कर्णजाहे जाहचप्रत्ययः । १८२६ । पक्षात्तिः । (५. २. २५) मूल ग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः । अस्मिन्नेव ग्रन्थे श्लो० 327. पक्षतौ पक्षमूले प्रतिपदि चन्द्रलेखेव स्थिता । तिप्रत्ययः । 'पक्षतिर्गस्तो मूले द्वयोः प्रतिपदोरपि ' इति यादवः । अस्मिन्नेव ग्रन्थे श्लो० 660. भृङ्गाणां पक्षतयः पक्षमूलानि । 'स्त्री पक्षतिः पक्षमूलम् ' II. v. 37. इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो० 777. पक्षती । १८२७ । तेन वित्तश्चुञ्चुचणपौ । ( ५. २. २६ ) विद्यया वित्तः विद्याचुचुः । विद्याचणः । अस्मिन्नेव ग्रन्थे श्लो0 1274. मायाचणं मायावित्तम् । चणम् । अत्रैवित्त: प्रसिद्धोऽस्वचुञ्चुः । चुञ्चुप् । किरातार्जुनीये---XV. 38. चारचुञ्चुश्चिरारेची चञ्चच्चीररुचा रुचः । चचार रुचिरश्चारु चारैराचारचञ्चुरः ।। 1661 ।। चारैर्गतिविशेषैर्वित्त इति चारचुञ्चुः । चुचुप्पत्ययः । माघे-IV 31. व्योमस्पृशः प्रथयता कलधौतभित्ती रुन्निद्रपुष्पचणचम्पकपिङ्गभासः । सौमेरवीमधिगतेन नितम्बशोभा मेतेन भारतमिलावृतवद्विभाति ।। 1662 || पुष्पैर्वित्ताः पुष्पचणाः । चणम् । अस्मित्नेव ग्रन्थे ग० 1369. अत्यन्तरसोत्पादनेन चगं वितं प्रसिद्धमतिरसोत्पादनचणम् । चणम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy