SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ५३२ पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 1892 संयात्रा सम्भूययात्रा प्रयोजनं येषां तान् सांयालिकान् । अनेन ठक् । अनर्घराघवे - V. 2. ग - ततश्चोद कान्तनिवर्तितानुया त्रिकबन्धुवर्गः ससम्भ्रमोपगतेन गुहेनोपनीतां नावमधिरुह्य || 1592 अनुयात्रया चरत्यानुयात्रिकः । ' चरति ' ( सू. 1556 ) इति ठक् इति व्याख्यायाम् । अस्मिन्नेव ग्रन्थे श्लो० 1505. विमानैश्चरन्तीति वैमानिकाः । ' चरति ' (सू. 1556 ) इति ठक् 1 माघे - IV. 11. यतः परार्ध्यानि भृतान्यन्नैः प्रस्थैर्मुहुर्भूरिभिरुच्छिखानि । आढ्यादिव प्रापणिकादजस्रं अणू । जग्राह रत्नान्यमितानि लोकः ॥ 1593 | प्रापणो व्यवहारः प्रयोजनमस्य प्रापणिकः वणिक् । अनेन ठकू । ' प्रापणिकष:' (उ. सू. 199 ) इत्यौणादिकः किकन् । प्रापणिकः । १७७३ । विशाखाषाढादण्मन्थदण्डयोः । ( ५. १. ११० ) आभ्यामण्स्यालयोजनमित्यर्थे क्रमान्मन्थदण्डयोरर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्डः । वा० । चूडादिभ्य उपसङ्ख्यानम् । चूडा चौडम् । श्रद्धा श्राद्धम् । ' वैशाखमन्थंमन्थानम् II ix. 74. ' पालाशो दण्ड आषाढ II. vii. 45. इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो० 1006. आषाढ : प्रयोजनमस्येत्याषाढः पलाशदण्डः | १७७७ । आकालिकडाद्यन्तवचने । ( ५.१.११४ )
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy