SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ५०३ माघे XII, 76. अव्याहृतक्षिप्रगतैस्समुच्छ्रिताननुज्झितद्राधिमभिर्गरीयसः । नाव्यं पयः केचिदतारिषुर्भुजैः पाणिनिसूत्रव्याख्या क्षिपद्धिरूर्मीनपरैरिवोर्मिभि. ॥ 1531 ॥ नावा ता नाव्यम् । ' नाव्यं त्रिलिङ नौतार्य ' I. ix. 10. इत्यमरः । रघुवंशे - IV. 31. मरुपृष्ठान्युदम्भांसि नाव्यात्सुतरा नदीः । विपिनानि प्रकाशानि शक्तिमत्वाच्चकार सः || 1532 ॥ नौभिस्तार्या नाव्याः । यत् । नैषधे - I. 56. अथ श्रिया भसितमत्स्यलाञ्छनः समं वयस्यैः स्वरहस्यवेदिभिः । पुरोपकण्ठोपवनं किलेक्षिता दिदेश यानाय निदेशकारिणः ॥ 1533 || वयसा तुल्या वयस्याः स्निग्धाः । यत् । अस्मिन्नेव ग्रन्थे श्लो० 107. वयसा तुझ्या वयस्या । १६४४ | धर्मपथ्यर्थन्यायादनपेते । (४ ४ ९२ ) • धर्मादनपेतं धर्म्यम् । पथ्यम् | अर्थ्यम् । न्याय्यम् । भट्टिकाव्ये - VI. 24. तथापि क्रियां धर्म्यं स कालेनामुचत्कचित् । महतां हि किया नित्या छिद्रे नैवावसीदति ॥ 1534 धर्म्या धर्मादनपेताम् । यत् । अस्मिन्नेव ग्रन्थे श्लो० 106. धर्म्या |
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy