SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 632. राजव्रजीयैः राजसङ्घसम्बन्धिभिः । चम्पूभारते-I. 11. ग--या खलु पुरा कुरुधराधिपापराधसमेधितक्रोधेन हलधरेण निजायुधेन हटाकर्षणशिक्षया समुत्क्षिप्तदक्षिण क्षितिभागा तदीयभुवनभूषणायमानां भोगवतीमात्मना विजेतुं भागीरथीपाथःपथेनावतीर्य कृतप्रस्थानेवाद्यापि परिदृश्यते ।! 1997 ॥ तस्येदं तदीयम् । नैवधे-II. 108. भ्रमणर यविकीर्णस्वर्णभासा खगेन कचन पतनयोग्य देशमन्विष्यताधः । मुखविधुमदसीयं सेवितुं लम्बमानः शशिपरिघिरिवोच्चैर्मण्डलस्तेन तेने ॥ 1398 ।। अमुष्या अयं अदसीयः । वृद्धाच्छः । त्यदादिवृद्धसंज्ञा । अस्मिन्नेव अन्थे श्लो० 461. अस्माकमिदमसदीयम् । चम्पूरामायणे- IV. 1. मलयगिरिचरोऽयं मन्मथाधोरणाज्ञा मथितपथिकवर्गो मारुतव्यालहस्ती। विरचयति मदीये शैत्यसौरभ्यमान्यै स्त्रिविधमदसमृद्धो मानसे वप्रलीलाम् ॥ 1399 ।। ममेदं मदीयम् । चम्पूरामायणे-II. 79. खतस्सिद्धं यस्मिन्नितरदुरवाप विजयते सुमित्रापुत्रत्वादपि जगति रामानुजपदम् । यदीयाक्षिद्वन्द्वप्रतिनिधि भवेदम्बुजयुग निशीथे निर्निद्रं यदि तमपि साक्षादकृत सः ॥ 1400 ॥ यदीयम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy