SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या अथोडसद्धिर्नयनैर्मुनीना मयं कुमुद्वानजनि प्रदेशः ॥ 1377 || कुमुद्वान् ! पूर्ववत् । अर्ध राघवे - V. 18. विन्ध्य गिरिगजकन्यान्तः पुरमेतास्तरङ्गमालिन्यः । वेतस्वतीभिरद्भिस्तौर्यत्रिक गुणनिकां ढवते | 1378 ॥ स्वतः ! मतुपि ङीप् । १३०७ । नडशादाड्ज्वलच ) ( ४. २.८८ ) नड्वल: । ' शादो जम्बालघासयो: ' IIT iit. 90. इत्यमरः । शाद्वलः । रघुर्वशे— XVIII. 5. तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः । यो नड्वलानीव गजः परेषां बलान्यमृद्गान्नलिनाभवक्तः ॥ 1379 ॥ नड्वलानि नडप्रायस्थलानि वलच् रघुवंशे - II. 17. स पल्वलशेतीर्णवराहयूथा न्यावासवृक्षोन्मुख बर्हिणानि । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥ 1380 ॥ शादाः शष्पाप्येषु देशेषु सन्तीति शाद्वलाः । ड्वलच् । अस्मिन्नेव ग्रन्थे श्लो० 627. शाद्वलाः । शादप्रायप्रदेशाः । ' नडप्राये नड्वान् नड्वल इत्यपि । कुमुद्वान् कुमुदप्राये वेतखान् बहुवेतसे । शाद्वलश्शादहरिते' II i, 10 -- 11. इत्यमरः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy