SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या वा० । हरिद्रामहारजनाभ्यामञ् । ( 2682.) हारिद्रम् । माहारजनम् । भट्टिकान्ये---V. 62. कमण्डलुकपालेन शिरसा च मृजावता । संवस्य लाक्षिके वस्त्रे मात्रः सम्भाण्ड्य दण्डवान् ।। 1321 ! लाक्षया रक्ते लाक्षिके । अनेन ठक् । किरातार्जुनीये--V. 45. क्षिपति योऽनुवन विततां बृह बृहतिकामिव रोचनिकी रुचम् । अयमनेकहिरण्मयकन्दर स्तव पितुर्दयितो जगतीघरः ।। 1322 ।। रोचनया रक्तां रौचनिकीम् । अनेन ठक् । 'टिड्ढाणम् ' (सू. 470 ) इति डीप् । किरातार्जुनीये--X. 4. सरमसमवलम्ब्य नीलमन्या विगलितनीवि विलोलमन्तरीयम् । अभिपतितुमनाः ससाध्वसेव च्युतरशनागुणसन्दितावतस्थे ।। 1823 !! नील्या रक्तं नीलम् । नील्या अन् । अन्तरीयम् । १२०४ । नक्षत्रेण युक्तः कालः । (४. २. ३) पुष्येण युक्तं पौषमहः । पौषी रात्रिः । नक्षत्रे च लुपि' (सू. 642 ) इति तृतीयासप्तम्यौ। मस्मिन्नेव अन्ये श्लो० 139. पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमास्यां तिथौ । 'पुष्ययुक्ता पौर्णमासी पौषी' I. iii. 14. इत्यमरः। अनेनाण् । 'टिड्ढाणञ्' (सू. 470) इति डीप् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy