SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या पुलोम्नोऽपत्यं स्त्री पौलोमी । ' तस्यापत्यम् ' ( 1088 ) इत्यण् । ङीप् । अनेन न प्रकृतिभावः । अनघेराघवे - VI. 24. एताः पश्य पलादपतनभुवः सौत्रामणीनां दृशामाम्भोभिर देवमातृक गृहारामाभिरामश्रियः । एतासु प्रतिघातिविक्रमकथोपालम्भवैतण्डिकैः क्लृप्तेन्द्रध्वजिनीजयानुकृतिभिर्डिम्मैरपि क्रीडितम् ॥ 1298 ॥ सौतामणीनाम् । 'तस्येदम् ' ( सू. 1088 ) इत्यण् । अतः प्रकृतिभावः । अस्मिन्नव ग्रन्थे श्लो० 1295. भास्मनैः भस्ममयैः । वैकारिकोऽण् । अतः 1 प्रकृतिभावः । अस्मिन्नव ग्रन्थे लो० 59. चर्मणो विकारे चार्मिणे ' तस्य विकारः ' (सू. 1514 ) इत्यण् । कोशे टिलोपो वक्तव्य इति नियमात्कोशादन्यत्र टिलोपाभावः । ११५८ | ब्राह्मोऽजातौ । ( ६.४. १७१ ) 1 योग विभागोऽल कर्तव्यः । ब्राह्म इति निपात्यते ऽनपत्येऽणि । ब्राह्मं हविः । ब्रह्मणोऽपत्यं ब्राह्मणः । भट्टिकाव्ये—IV. 4. आहिषातां रघुव्याघ्रौ शरभङ्गाश्रमं ततः । अध्यासितं श्रिया ब्राह्मया शरणं शरणैषिणाम् ॥ 1299 ॥ ब्राह्मया ब्रह्मसम्बन्धिन्या ' तस्येदम् ' ( सू. 1500 ) इत्यण् । ङीप् । अजाताविति व्यतिरिक्तार्थे निपातनाट्टिलोपः । चम्पूरामायणे - III. 12. प्रभामिवाक तमसां निहन्त्री ब्राह्मीं दधानं नियमेन लक्ष्मीम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy