SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययप्रकरणम् इति डीप् । रघुवंशे-XII. 31. पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः । अनपोढस्थितिस्तस्थौ विन्ध्यादिः प्रकृताविव ॥ 96 ॥ पश्चानां बटानां समाहारः पञ्चवटी । तद्धितार्थेति' (सू. 728.) तत्पुरुषः । 'सङ्ख्यापूधो द्विगुरिति (सू . '730.) द्विगुसंज्ञा । 'द्विगुरेकवचन मिति (सू. 781.) एकवचनम् । चम्पूरामायणे---- IV. 18. नाहं सुकेतुतनया न च सप्तसाली ___ वाली न च त्रिभुवनप्रथितप्रभावः । तारास्मि वज्रहृदया विशिखैरभेया धन्वी कथं भवसि राघव मामविध्वा ॥ 97 ॥ सप्तानां सालानां समाहारः सप्तसाली । त्रयाणां भुवनानां समाहारः त्रिभुवनम् । ४८३ । ऊधसोऽनङ् । (५. ४, १३१) ऊयोऽन्तस्य बहुव्रीहेरन्डादेशः स्यात्स्त्रियाम् । ४८४ । वहुवीहेरूघसो डीम् । (४. १. २५) ऊधोऽन्ताबहुव्रीहेडींष् स्यात्स्त्रियाम् । रघुबशे-II. 49. अथैकधेनरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्विभेषि । शक्योऽस्य मन्युभविता विनेतुं गाः कोटिशः स्पर्शयता घटोनीः ।।8।। घटा इवोधांसि यासां ता घटोनयः । स्त्रियां किम् ? किरातार्जुनीये--IV. 10. . उपारताः पश्चिमरात्रिगोचरादपारयन्तः पतितुं जवेन गाम् । तमुत्सुकाश्चक्रुरवेक्षणोत्सुकं गवां गणाः प्रस्नुतपीवरोधसः ॥ 99 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy