SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ द्वन्द्वसमासप्रकरणम २९९ तोयोत्सर्गश्च स्तनितं च तोयोत्सगैस्तनिते । ताभ्यां मुखरः । अल्पान्तरम् इति पूर्वनिपातो न । ' लक्षणहेत्वो ।' (सू. 3103) इत्यत्र सूत्रे विपरीतनिर्देशेन पूर्वनिपातशास्त्रस्यानित्यत्वज्ञापनात् । अस्मिन्नेव ग्रन्थे लो० 690. नागेन्द्ररथाश्वेन मिश्रैः । बहुब्वनियमाद्धस्तिनां प्राधान्याच्च बह्वचोऽपि नागेन्द्रस्य पूर्वनिपातः । अस्मिन्नेव ग्रन्थे श्लो० 1024. धराशैलसमुद्राणाम् | अस्मिन्नेव ग्रन्थे को 60. गुरुकाव्यौ । ' लब्बक्षरं पूर्वम्' (बा. 1418सू. 905 ) इति पूर्वनिपातः । पूर्ववत् । भट्टिकाव्ये - XV. 115. अङ्गदेनाहसातां तौ युध्यकम्पनकम्पनौ । अभ्यादद्वालिनः पुत्रं प्रजोऽपि समत्सरः || 1027 अकम्पनःश्च कम्पनश्च अकम्पनकम्पनौ । ज्येष्ठत्वात्पूर्वनिपातः । अस्मिन्नेव ग्रन्थे श्लो० 1018. लक्ष्मणश्च शत्रुनश्च लक्ष्मणशत्रुघ्नौ । चम्पूभारते -- I. 55. झुत्पीडया स्तनरसे कलहं शिशूनां कुन्ती तदा शमयितुं कुचकुम्भयुग्मे ! एकं धनञ्जययुधिष्ठिरयोश्च भाग मेकं समीरणसुतस्य च संविभेजे || 1028 | धनञ्जययुधिष्ठिरयोरिति ज्येष्ठस्य पूर्वनिपातो न । ९०६ । द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् । ( २.४.२ ) एषां द्वन्द्व एकवत्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकन् । रथिकाधारोहम् । अस्मिन्नेव ग्रन्थे लो० 827. वाक्त्वचेन । वाक्च त्वक्चेति प्राण्यङ्गत्वादेकवत् । ' द्वन्द्वात् ' ( सू. 930 ) इति टच /
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy