SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ कर्मधारयसमालप्रकरणम् २४९ भट्टिकाव्ये-IX. 136. असद्वन्धुवधोपज्ञं विमुञ्च बलिविग्रहम् । सीतामर्पय नन्तव्ये कोशदण्डात्मभूमिभिः ।। 876 ।। उपजायत इत्युपज्ञा : 'आतश्चोपसर्गे' (सु. 3283) इति अङ् । असरन्धुवधस्य बन्धुवस्याचेतनस्योपज्ञाने कर्तृत्वासम्भवात् तेन हतबन्धुश्चेतनो लक्ष्यते । तस्योपज्ञा तदुपज्ञम् । तेन त्वयैवादावुपज्ञातमित्यर्थः । भट्टिकाव्ये-III. 31. नृपात्मजौ विक्तिशतुः ससीतौ ममार राजा विधवा भवत्यः । शोच्या व्यं भूरनृपा लघुत्वं कैकेय्युपज्ञं बत बनर्थम् ।। 877 ॥ उपज्ञायत इत्युपज्ञा । 'आतश्वोपसर्गे' (सू. 3283 ) इति कर्मण्यङ् । कैकेय्या उपज्ञा कैकेय्युपज्ञम् । 'कृद्योगा' (वा. 1317. सू. 703) इति षष्ठीसमासः । रघुवंशे--XV. 63. अथ प्राचेतसोपज्ञं रामायणमितस्ततः । मैथिलेयौ कुशलवौ जगदुर्गुरुचोदितौ ॥ 878 ॥ पाचेतसस्योपज्ञा प्राचेतसोपज्ञम् । अस्मिन्नेव ग्रन्थे श्लो० 508. भरतोपज्ञं विज्ञापना । चम्पूरामायणे-I. 44. मुनि शाश्वोपज्ञानि ताटकामाथिने ददौ । अस्त्राणि जृम्भकादीनि जम्भशासनशासनात् ।। 879 ।। भृशाश्वस्योपज्ञा भृशाश्वोपज्ञानि । अस्मिन्नेव ग्रन्थे श्लो० 48. यदुपज्ञम् । 32
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy