SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ तत्पुरुषसमासप्रकरणम् - २०५ भट्टिकाव्ये -VII. 28. राघवस्य ततः कार्य कार्वानरपुङ्गवः । सर्वदानरसैन्यानामावागमनमादिशत् ॥ 745 !! पुमान्गौः पुङ्गवः । वृषभः । समासान्तष्टच । तेनोपमितसम्नासे वानरपुंगवः । कुमारसंभवे---VII. 77. रोमोद्गमः प्रादुरभूदुमायाः विन्नाङ्गुलिः पुंगवकेतुरासीत् । वृत्तिस्तयोः पाणिसमागमेन सम विभक्तेव मनोभवस्य || 746 11 पुमान्गौः पुङ्गवः । टच । ७३० । संख्यापूर्वो द्विगुः । (२.१.५२) 'तद्धितार्थ ' ( सू. 728 ) इत्यत्रोक्तः संख्यापूर्वो द्विगुः स्यात् । माधे- III. 63. स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तेः। विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव ।। 747 ॥ त्रयाणां लोकानां समाहारस्त्रिलोकी । 'तद्धितार्थ' (सू. 728) इत्यादिना समासः । अनेन सूत्रेण द्विगुसंज्ञा । वा । अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः । ( 1556.) . इति स्त्रीत्वम् । द्विगोरिति डीप। अस्मिन्नेव ग्रन्थे श्लो० 96. पंचानां वटानां समाहारः पंचवटी। ' तद्धि तार्थ (सू. 728) इत्यादिना तत्पुरुषः । अनेन सूत्रेण द्विगुसंज्ञा । स्त्रीत्व , बीप एकवचनम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy