SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ OM तत्पुरुषसमासप्रकरणम् ७१५ । प्राप्तापन्ने च द्वितीयया । ( २. २. ४) पक्षे द्वितीया श्रित' (सू. 686) इति समासः । प्राप्तो जीविकां प्रासजीविकः । जीविकाप्राप्तः । आपन्नजीविकः । जीविकापन्नः । ७१७ । सप्तमी शौण्डैः । (२. १. ४०) सप्तन्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौण्डः अक्षशौण्डः । अधिशब्दोऽत्र पठ्यते । मध्युत्तरपदात् ' (सू. 2079) इति खः । ईश्वराधीनः । शौण्डादिः २-२. अनर्घराघवे-IV. 37. त्रैलोक्यत्राणशौण्डः सरसिजवसतेथः प्रसूतो भुजाभ्यां स क्षत्रं नाम वर्णः कुलिशकठिनयोर्यस्य दोष्णोविलीनः । ज्वालाजिहालकालानलकबलमपभ्रान्तदेवासुराणि व्यातन्वानो जगन्ति ज्वलति मुनिस्यं पार्वतीधर्मपुत्रः ॥ 728 ॥ त्रैलोक्यनाणे शौण्ड इति समासः । अस्मिन्नेव ग्रन्थे श्लो० 543. पाने शौण्डो मतः पानशौण्डः इति समासः । कुमारसंभवे-IV. 10. परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव । विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् ॥ 729 ।। त्वयि अधीनं त्वदधीनम् । अधीनशब्दस्य शौण्डादित्वात्समासः । अस्मिन्नेव ग्रन्थे श्लो० 701. तरुमृगोत्तममिति सप्तमी इति योगविभागात्समासः । अस्मिन्नेव ग्रन्थे श्लो० 610. 'प्रसितोत्सुकाभ्यां तृतीया च' (सू. 641) इति सप्तम्यां आज्ञालामे उत्सुकः आज्ञालाभोत्सुक इति सप्तमी इति योगविभागात्समासः । अस्मिन्नेव ग्रन्थे श्लो० 609. अरविन्देषु समुत्सुकान् अरविन्दसमुत्सुकान् । पूर्ववत्सप्तमीसमासः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy