SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७८ पाणिनिसूत्रव्याख्या दुर्ग ग्रामसीन्न' इत्यादौ नपुंसकप्रयोगदर्शनात् ' नपुंसकादन्यतरस्याम् ' ( सू. 680) इति विकल्पाट्टच् नेत्याहुः । ६७९ । नस्तद्धिते । ( ६. ४. १४४ ) नान्तस्य भस्य टेर्लोपः स्यात् तद्धिते । उपराजम् अस्मिन्नेव ग्रन्थे श्लो० 441. अध्यात्मम् । अस्मिन्नेव ग्रन्थे श्लो० 647. सराजम् । अस्मिन्नेव ग्रन्थे श्लो० 622. अध्यध्वम् । अस्मिन्नेव ग्रन्ये श्लो० 665 प्रतियुवम् । अस्मिन्नेव ग्रन्थे श्लो० 672. प्रत्यहम् । माघे - V. 30. आलोलपुष्कर मुखोल्लसितैर भीक्ष्णमुक्षांचभूवुरभितो वपुरम्बुवर्षैः । खेदायतश्वसितवेगनिरस्तमुग्ध मूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥ 678 ॥ मूर्धनि भवा मूर्धन्याः । ' शरीरावयवाच्च ' ( सू. 1430 ) इति यत्प्रत्ययः । 'ये चाभावकर्मणोः ' ( सू. 1154 ) इति प्रकृतिभावात् ' नस्तद्धिते ' ( सू 679 ) इति टिलोपाभावः । रघुवंशे — XVIII. 28. यशोभिराब्रह्मसभं प्रकाशः स ब्रह्मभूयं गतिमाजगाम । ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम् || 679 || अतिशयेन ब्रह्मवन्तं ब्रह्मिष्ठम् । ब्रह्मशब्दान्मतुवन्तादिष्ठन्प्रत्यये ' विन्मतोर्लुक् (सु. 2020 ) इति मतुपो लुक् । ' नस्तद्धिते ' ( सू. 679 ) इति टिलोपः । , अस्मिन्नेव ग्रन्थे श्लो० 83. हेम्नो विकारो हैमी । 'प्राणीरजतादिभ्योऽञ् ' (सु. 1532 ) ' नस्तद्धिते ' ( सू 679 ) इति टिलोपः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy