SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रीतो राजाप्यनुजतनुजप्रेममार्गे प्रया मातुर्दोषादिव बहिरगादन्तरप्यन्धभावम् ॥ 672 | अव्ययीभावसमासप्रकरणम् सिन्धोः पारे पारेसिन्धु | अस्मिन्नेव ग्रन्थे इलो० 114. मध्ये समुद्रस्य मध्ये समुद्रम् | अदन्तात्समुद्र शब्दाद्विकल्पात्सप्तम्या अम्भावः । भट्टिकाव्ये - V. 4. १७५ हतबन्धुर्जगामासौ ततः शूर्पणखा बनात् । मध्ये समुद्रं लङ्कायां वसन्तं रावणं गतिम् ॥ 678 || मध्ये समुद्रस्य मध्येसमुद्रम् । अव्ययीभावसमासः । पूर्ववदम् । अस्मिन्नेव ग्रन्थे श्लो० 648. मध्ये जलस्य मध्येजलम् । तस्मान्मध्येजलात् । अपञ्चन्या इति निषेधादम् न भवति । ६७३ | संख्या वंश्येन । (२.१.१९ ) . वंशो द्विधा विद्यया जन्मना च । तत्र भवो वैश्यः । तद्वाचिना सह संख्या वा समस्यते । मुनी वंश्यौ द्विमुनि । व्याकरणस्य त्रिमुनि । ६७४ | नदीभिश्च । (२.१.२० ) नदीभिः संख्या प्राग्वत् । समाहारे चायमिष्यते । सप्तगङ्गम् । द्वियमुनम् ! ' संख्याया नदीगोदावरीभ्यां च ' ( वा. 5047. सू. 948 ) इति सर्वसमासान्तो ऽच् । पञ्चनदम् । सप्तगोदावरम् । अनर्घराघवे - VII. 103. ग–देव ! प्रणम्यतामयमन्त्रविषयलक्ष्म्याः सप्तगोदावरहार कलापैकनायको भगवान्भीमेश्वरः || 674 | सप्तानां गोदावरीणां समाहारः सप्तगोदावरम् । अव्ययीभावो वा । 1 ६७६ । समासान्ताः । ( ५. ४,६८ ) इत्यधिकृत्य ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy