SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या अहन्यहन्यन्वहम् । वीप्सायामव्ययीभावः । 'अनश्च' (सू. 678) इति समासान्तः । अस्मिन्नेव ग्रन्थे .. 486. अनुक्षपम् । वीप्सायामव्ययीभावः । किरातार्जुनीये-VIII. 4. धनानि कामं कुसुमानि बिभ्रतः । करप्रचेयान्यपहाय शाखिनः। पुरोऽभिसने सुरसुन्दरीजनै __ यथोत्तरेच्छा हि गुणेषु कामिनः ।। 643 ॥ उत्तरमुत्तरं यथोत्तरम् । वीप्सार्थेऽव्ययीभावः । किरातार्जुनीये--XIV. 58. शिवध्वजिन्यः प्रतियोधमग्रतः ___ स्फुरन्तमुग्रेषुमयूखमालिनम् । तमेकदेशस्थमनेकदेशगा निदध्युरर्क युगपत्प्रजा इव ॥ 644 !! योधस्य योधस्य प्रतियोधम् । वीप्सायामव्ययीभावः । नैषधे-II. 85. प्रतिहट्टपश्चे घाट्टजात् पथिकाहानदसक्तुसौरभैः। कलहान्न धनान्यदुत्थिता दधुनाप्युज्झति बघरखरः ॥ 645 ॥ प्रतिहट्टपथे प्रत्यापणपथे । वीप्सायामव्ययीभावः । 'तृतीयासप्तम्योर्बहुलम् ' (सू. 658) इति सप्तम्या नाम्भावः । माघे---VI. 1. अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतनसवश्रिया।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy