SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यो स्तोऽधिकरणे। मूलेनावाहयेद्देवी श्रवणेन विसर्जयेत् । मूले श्रवण इति वा । ' नक्षत्रेण युक्तः कालः' (सू. 204) इत्यण् । लुबबिशेषे' (सू. 1205 ) इति लुप् । 'लुपि युक्तवद्वयक्तिवचने' (सू. 1294) इति प्रकृतिलिङ्गवचने। अस्मिन्नेव ग्रन्थे श्लो० 607. मधासु मघयुक्तकाले । लुबन्तान्नक्षत्रवाचकशब्दाद्वैकल्पिकी सप्तमी। ६४३ । सप्तमीपञ्चम्यौ कारकमध्ये (२. ३. ७) शक्तिद्वयमध्ये यौ कालाध्वानौ ताभ्यामेते स्तः । अधिकशब्दयोगे सप्तमीपंचभ्याविष्यते । तदस्मिन्नधिक' (सू. 1846) इति — यस्मादधिक ' (सू. 645 ) इति च सूत्रनिर्देशात् । लोके लोकाद्वाधिको हरिः । अस्मिन्नेव ग्रन्थे श्लो० 819. पुंसा स्त्रिय इति कर्तृकर्मकारकमध्यवर्तित्वात् व्यहादिति पञ्चमी । अस्मिन्नेव ग्रन्थे श्लो० 320. त्वं मामिति कर्तृकर्मकारकमध्यगतत्वान्मास इति सप्तमी। ६४४ । अधिरीश्वरे । (१. ४. ९७) खखामिसम्बन्धोऽधिः कर्मप्रवचनीयसंज्ञः स्यात् । ६४५ । यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । (२. ३. ९) अत्र कर्मप्रवचनीययुक्ते सप्तमी स्यात् । भट्टिकाव्ये-VIII. 98. अधि रामे पराक्रान्तमधिकर्ता स ते क्षयम् । इत्युक्ता मैथिली तूष्णीमासांचक्रे दशाननम् ।। 613 |
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy