SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या रघुवंशे-XVIII. 53. प्रतिकृतिरचनाभ्यो दृतिसन्दर्शिताभ्यः समधिकतररूपाः शुद्धसन्तानकामैः । अधिविविदुरमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ।। 605 ॥ प्रतिकृतिरचनाभ्यः समधिकतररूपाः । पञ्चमी । अनर्घराघवे--- V. 37. ग-अये प्रसन्नोज्वलाकृती कावेतौ । नियतमाभ्यामेकेन दानवनाथकालोक्षेपनिमित्तेन भवितव्यम् ॥ 606 ॥ आभ्यामेकेन। ६४० । साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः । ( २. ३. ४३) आभ्यां योगे सप्तमी स्यादर्चायाम् । न तु प्रतेः प्रयोगे । मातरि साधुनिपुणो वा। वा० । अप्रत्यादिभिरिति वक्तव्यम् । ( 1493.) साधुनिपुणो वा मातरं प्रति पर्यनु वा। अस्मिन्नेव ग्रन्थे श्लो० 330. रक्षोविद्वत्सु साधून् । मारयितषु निपुणान् । ६४१ । प्रसितोत्सुकाभ्यां तृतीया च । ( २. ३. ४४ ) आभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको हरिणा हरौ वा । भट्टिकाव्ये--VIII. 117. भवत्यामुत्सुको रामः प्रसितः सङ्गमेन ते । मघासु कृतनिर्वापः पितृभ्यो मां व्यसञ्जयत् ।। 607 ।। भवत्यामुत्सुकः त्वयि उत्कण्ठितः । ते संगमेन प्रसितः, संगतावासक्तः । तृतीयासप्तम्यौ ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy