SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् १५१ स्त्रीषु मध्ये दर्शनीयतमाः । दर्शनीयतमत्वगुणेन पृथक्करणान्निर्धारणे सप्तमी । अस्मिन्नेव ग्रन्थे श्लो० 28. सर्वतेजस्सु सर्वतेजसां मध्ये ज्योतिष्टमाम् । सप्तमी । रघुवंशे - I. 59 अथाथर्वनिधेस्तस्य विजितारिपुर : पुरः । अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः । 602 || । वदतां वक्तॄणां वरः श्रेष्ठः, निर्धारणे षष्ठी । 'न निर्धारण ' ( सू. 704 ) इति षष्ठीसमासप्रतिषेधः । निर्धारणे सप्तमीसमासस्तु स्यादेव । ६३९ । पञ्चमी विभक्ते । ( २. ३.४२ ) विभागो विभक्तम् । निर्धार्यमाणस्य यत्र भेद एव तत्र पञ्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः । अस्मिन्नेव ग्रन्थे श्लो० 601. भुजङ्गेभ्यो व्यालतमान्हिसान् । भुजङ्गेभ्यो राक्षसानां विभागात्पञ्चमी । अस्मिन्नेव ग्रन्थे श्लो० 586 इमां गां सुरभेः कामधेनोरनुनामहि । पञ्चमी । भट्टिकाव्ये - IV. 14. आतिष्ठद् जपन्सन्ध्यां प्रकान्तामायतीगवम् । प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन्यविम् || 603 ॥ रामः पतत्रिभ्यः प्रातस्तरां प्रबुद्धः सन् । पतत्रिभ्य इति पञ्चमी । माघे — IV. 45. या न ययौ प्रियमन्यवधूभ्य स्सारतरागमना यतमानम् । तेन सह विभर्ति रस्त्री सा रतरागमनायतमानम् || 604 || अन्यवधूभ्यः सारतरं आगमनं यस्याः सा । पञ्चमी ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy