SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् ६२५ । क्तस्य च वर्तमाने । (२. ३. ६७) वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । 'न लोक' (सू. 627 ) इति निषेधस्यापवादः । 'मतिबुद्धि' (सू. 3089) इति वर्तमाने क्तः । 'क्तेन च' (सू. 706 ) इति क्तेन षष्ठी न समस्यते । अस्मिन्नेव ग्रन्थे श्लो० 514. रामस्य संमतं रामेण संमन्यमानम् । माधे-XV. 14. यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम् । प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते ॥ 521 ॥ सतामपूजितं सद्भिरपूज्यमानम् । माधे-XVI 15. विजितक्रुधमीक्षतामसौ महतां त्वां महितं महीभृताम् । असकृजितसयत पुरो मुदितः सप्रमदं महीपतिः ॥ 522 ॥ महीभृतां महितं पूज्यमानम् । किरातार्जुनीये----XI. 42. न ज्ञातं तात यनस्य पौर्वापर्यममुष्य ते । शासितुं येन मां धर्म मुनिभिस्तुल्यमिच्छसि ॥ 523 ॥ ते न ज्ञातम् । त्वया न ज्ञायते । किरातार्जुनीये---XII. 31. किमुपेक्षसे कथय नाथ न तव विदितं न किंचन । 17
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy