SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् अस्मिन्नेव ग्रन्थे श्लो० 216. भवत्याः स्मरता रामेण । चम्पूरामायणे-IV. 44. सुत्रामपुत्रारिशिलीमुखानां स्मृत्वा गणस्तत्र वलीमुखानाम् । अपामपारस्य निधेश्च पवादवाङ्मुखो वक्तुमवाङ्मुखोऽभूत् ।। 47611 शिलीमुखानां स्मृत्वा। भट्टिकाव्ये-VIII. 120. रामस्य दयमानोऽसावध्येति तव लक्ष्मणः । उपास्कृषातां राजेन्द्रावागमस्येह मा त्रसीः ।। 477 ॥ रामस्य दयमानोऽसौ लक्ष्मणस्तवाध्येति त्वां स्मारयतीत्यर्थः । उभयत्र षष्ठी । भट्टिकाव्ये—II. 33. आत्मम्भरिस्त्वं पिशितैर्नराणां ___ फलेग्रहीन्हसि वनस्पतीनाम् । शौवस्तिकत्वं विभवा न येषां व्रजन्ति तेषां दयसे न कस्मात् ॥ 476 ॥ तेषां कस्मान्न दयसे । अस्मिन्नेव ग्रन्थे श्लो० 404. तज्जीवितस्य दयमानमनाः । चम्पूरामायणे-II. 2. ग-विदितमेव हि भवतां शिवतातिमेव पतिं दधानास्लुफ्था संचरमाणाः प्राणिनां दयमानमानसा मानधना यश:समार्जनजागरूका जनोपतापसमाजनतत्पराः परां निर्वृतिमुपेत्य देवभूयं गताः सर्वे नः पूर्वपुरुषा इति ॥ 479 ॥ प्राणिनां दयमानमानसाः। चम्यूरामायणे-IV. 16. साधारणी क्षितिभृतां मृगयेति पूर्व मुक्ता त्वयैव जनसंसदि सत्यवादिन् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy