SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०८ पाणिनिसूत्रन्याख्या एभ्योऽद्रव्यवचनेभ्यः करणे तृतीयापञ्चम्यौ स्तः । स्तोकेन स्तोकाद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हतः। भट्टिकाव्ये-VIII. 110. इति चिन्तावती कृच्छात्समासाद्य कपिद्विपः । नुक्तां स्तोकेन रक्षोभिः प्रोचेऽहं रामकिङ्करः ॥ 443 ।। रक्षोभिः कर्तृभिः स्तोकेन लेशेनापि मुक्ता सीतां कृच्छ्रासमासाद्य । विकल्पास्पंचमी तृतीया च । ६०५ । दूरान्तिकार्थेभ्यो द्वितीया च । (२. ३. ३५) .. एभ्यो द्वितीया स्यात् । चात्पञ्चमीतृतीये। 'सप्तम्यधिकरणे च' (सू. 638) इति चकारात्सप्तमी। ग्रामस्य ग्रामद्वा दूर दूरात् दूरेण दूरे वा। अन्तिकं अन्तिकात् अन्तिकेन अन्तिके वा। भट्टिकाव्ये-VIII. 111. - विप्रकृष्टं महेन्द्रस्य न दूरात विध्यपर्वतात् । नानभ्याशे समुद्रस्य तव माल्यवति प्रियः ॥ 444 !! महेन्द्रस्य विप्रकृष्टं न । दूराद् विध्यपर्वतात् । दूराद् दूरम् । समुद्रस्य नानभ्याशे। अभ्याशे समीप इत्यर्थः । विप्रकृष्टदूराभ्याशशब्देभ्योऽसत्ववचनेभ्यः प्रातिपादिकार्थे विकल्पाद्वितीयापञ्चम्यौ । पूर्वोक्तचकारात्सप्तमी च । चम्पूभारते-III. 81. एतेन खल्वकरुणेन तपागमेन जीवातुरद्य मम देशत एव दुरात् । उत्सारितो मधुरितीव रुषा बनान्ते तत्स्वागत परभृतो न समाचचार || 445 ॥ दूरादिति पञ्चमी।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy