SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या वेदाध्ययनादनन्तरमित्याचार्याः । कुमारसंभवे-VI. 9. सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम् । पुरातनाः पुराविद्भिर्घातार इति कीर्तिताः ।। 429 || खुवंशे-III. 7. क्रमेण निस्तीर्य च दोहदव्यथा प्रचीयमानावयवा राज सा । पुराणपत्रापगमादनन्तरं . लतेव सन्नद्धमनोज्ञपलवा 1430॥ कुमारसम्भवे--VI. 98. वैवाहिकी तिथि पृष्टास्तत्क्षण हरबन्धुना । ते वयहादूर्ध्वमाख्याय चेरुश्वीरपरिग्रहाः ।। 43i || देशकालयोगे पञ्चमी। नैषधे-VI. 86. इत्युक्तवत्या निहितादरेण भैम्या गृहीता मघवत्प्रसादः । स्रपारिजातस्य ऋते नलाशा वासैरशेषामपुपूरदाशाम् ॥ 432 ।। नलाशामृते । पञ्चम्येव विहिता । मतान्तरे द्वितीयाप्यस्तीत्याहुः । ५९६ । अपपरी वजने । (१, ४, ८८ ) एतौ वजने कर्मप्रवचनीयौ स्तः। ५९७ । आङ् मर्यादावचने । (१.४. ८९) माङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि । ५९८ । पञ्चम्यपापरिभिः । (२. ३. १०) एतैः कर्मप्रवचनीयैोंगे पंचमी स्यात् । अप हरेः, परि हरेः, संसारः । या मुक्तेः संसारः । 'अपरिबहिरञ्चवः पञ्चम्या' (सू. 666 ) इति वा समासः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy