SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२८ कर्मकाण्डकमावला प्रतिष्ठायाः प्रतिष्ठाद्याः पञ्च भेदाः शिवागमे । प्रसिद्धलक्षणं तेषां स्वरूपं च वदाम्यहम् ॥१२१५॥ यत्र ब्रह्मशिलायोगः सा प्रतिष्ठा विशेषतः । स्थापनं तु यथायोगं पीठ एव निवेशनम् ॥१२१६॥ प्रतिष्ठाभिन्नपीठस्य स्थिरस्थापनमुच्यते ।। उत्थापनं तु सा प्रोक्ता लिङ्गाधारपुरःसरा १२१७॥ यस्यां तु लिङ्गमारोप्य संस्कारः क्रियते बुधैः। आस्थापनं तदुद्दिष्टं पञ्चमीयं शिवाश्रिता ॥१२१८॥ द्विधा नारायणादोनामास्थानोत्थानभेदतः ।। आसु सर्वासु चैतन्यं नियुञ्जीत परं शिवम् ॥१२१६॥ पदाध्वना विभेदेन प्रासादेष्वपि पञ्चधा । परीक्षामथ मेदिन्याः कुर्यात्प्रासादकाम्यया ॥१२२०॥ शुक्लाज्यगन्धा रक्ता च रक्तगन्धानुगन्धिनी । पीता कृष्णा सुरागन्धा विप्रादीनामनुक्रमात् ॥१२२१॥ पूर्वेशोत्तरसर्वानुप्लवदोषा · प्रशस्यते । अभावेऽभीष्टवर्णस्य वर्णापादानमाचरेत् ॥१२२२॥ आखाते हास्तिके यस्याः पूर्ण मृदधिकाभवेत् ।। उत्तमां तां महीं विद्यात्तोयाद्यैर्वा परीक्षयेत् ॥१२२३॥ अस्थ्यङ्गारादिभिर्दुष्टामत्यन्तं शोधयेद्भुवम् । खननैर्गोकुलावासैः कर्षणैर्वा मुहुर्मुहुः ॥१२२४॥ मण्डपे द्वारपूजादिमन्त्रतप्त्यवसानकम् । १ वदामहे 'क, ख. ग. २ स्थित ख. पाठः ।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy