SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ एकादशो लम्भः मनसि भगवतो जिनस्य पादौ श्रवसि धर्ममयामृतं विवेहि । प्रकृतिचयहिते च नेत्रवृत्तिं तनय सुखेन महीं पालयेति ||४०|| एवं प्रकारेण निजनन्दनं सत्यन्धरं बोधयित्वा, इतरानपि तनयान् यथायोग्यं पदेषु प्रतिष्ठाप्यः श्रीवीरजिनचरणसरोजभक्तिभरेण वैराग्यवशेन च प्रेरितो महीपालः सकलसहचरनिकर परिवृतपार्श्वभागः, तुष्टाभिरष्टाभिः कान्ताभिर्दन्तुरितसविधप्रदेशः, पञ्श्चादनुधाविन्या सत्यन्धरप्रमुखनन्दनपुरस्सरया वेलामतिक्रम्योगच्छन्त्येव वारिनिधिवारिवाहिन्या निर्दयसंताडितपटहप्रभृतिनुर्यघोषविशेपप्रतिध्वानितकुलाचलकन्द्रया मदमन्थरया पृतनयानुगम्यमानः क्रमेण सप्रणामं तथा विसृष्टः, श्रीसभासमीपमासाद्य तां त्रिः प्रदक्षिणीकृत्य प्रमुदितमना मनागितरविस्मयविस्तारिताः प्राविक्षत् । यस्याः पार्श्वे रत्नरेणुप्रक्लृप्तो धूलीजालः शक्रचापानुकारी । अर्हन्नाथं मुक्तिलक्ष्म्या वरीतुं क्षिप्तं रेजे कङ्कणं वा समीपे ॥ ४१ ॥ यस्यां च गगनतलचुम्विनः स्पन्दमानमन्दुपव मानकन्दलवलमानध्वजाग्रमानस्तम्भाः क्रोधादीनां चतुर्णां निरसनाय प्रसृतसंसृल्लक्ष्मीतर्जनीकार्य धूर्वहा व्यराजन्त । २२६ हे सकलशशिबिम्बाभवदन, तनय पुत्र, ते तत्र प्रदेशे, वक्रं कुटिलम्, पिशुनवचनं खलवाक्यम्, लावण्यम्, मनसि च चेतसि च, कुमार्गे कापथे, वसतात् न निवसतु । शिखरिणीच्छन्दः ॥ ३६ ॥ मनसीति — हे तनय हे पुत्र, मनसि चेतसि भगवतो जिनस्य भगवज्जिनेन्द्रस्य पादौ चरणों, श्रवसि कर्णे, धर्ममयामृतं धर्मरूपपीयूषम्, प्रकृतिचयहिते प्रजागण कल्याणे च, नेत्रवृत्ति नयनवृत्तिम्, निधेहि कुरु, सुखेन शर्मणा, महीं वसुधाम्, प्रपालय रक्ष, इति, अवादीदित्यनेन सम्बन्धः ॥ ४० ॥ एवं प्रकारेणेति — एवं प्रकारण- इत्थम्, निजनन्दनं स्वपुत्रम्, सत्यन्धरं बोधयित्वा समाश्वास्य, इतरानप्यन्यानपि तनयान् पुत्रान् यथायोग्यं यथार्हम्, पढेषु स्थानेषु प्रतिष्ठाप्य प्रतिष्ठितान् कृत्वा, श्रीवीरजिनचरणसरोजयोः श्रीवर्धमान जिनेन्द्रपादारविन्दयोः भक्तिभरण अनुरागातिशयेन, वैराग्यवशेन च विरक्तिनिन्नत्वेन च, प्रेरितः प्राप्तप्रेरणः, महीपालो भूपः, सकलसहचरनिकरेण निखिल मित्रमण्डलेन परिवृतः परीतः पार्श्वभागो निकटप्रदेशो यस्य सः, तुष्टाभिः प्रसन्नाभिः, अष्टाभिः अष्टसंख्याकाभिः कान्ताभिर्वनिताभिः, दन्तुरितो नतोन्नतः सविधप्रदेशो यस्य सः, पश्चात्पृष्ठभागे अनुवाविन्या समनुगामिन्या, सत्यन्वरप्रमुखानन्दनाः पुरस्सरा यस्यास्तया, वेलां तटम्, अतिक्रम्य समुल्लङ्घय, उगच्छन्त्या समुत्पतन्त्या, वारिनिधिवारिवाहिन्येव सागरसलिलस्रवन्त्येव, निर्दयं निष्कृपं यथा स्यात्तथा संताडितानि समाहतानि परप्रभृतीनि ढक्काप्रमुखानि यानि त्र्याणि वाद्यविशेषास्तेषां घोषविशेषेण शब्दविशेषेण प्रतिध्वानिताः प्रतिनिनादिताः कुलाचलकन्दरा यया तया, मदमन्धरया मदेन मन्थरा तया पृतनया सेनया, अनुगम्यमानोऽनुक्रियमाणः, क्रमेण क्रमशः प्रणामं सनमस्कारम्, तया पृतनया, विसृष्टस्त्यक्तः, सन्, श्रीसभासमीपं समवसरण निकटम्, आसाद्य प्राप्य, तां श्रीसभाम्, त्रिःप्रदक्षिणीकृत्य परिक्रम्य, प्रमुदितमनाः प्रसन्नचेताः, मना गितर विस्मयेन विपुलाश्वर्येण विस्तारिते वितते अक्षणी यस्य तथाभूतः सन् प्राविक्षत् प्रविष्टो बभूव । , तस्या इति-‍ यस्याः श्रीसभायाः पार्श्वे समीपे, रत्नरेणुप्रक्लृप्तो रत्नरजोनिर्मितः शक्रचापानुकारी पुरन्दरकोदण्डविडम्बकः, धूलिसालो धूलिप्राकारः, अर्हन्नाथं श्रीजिनेन्द्रम्, वरीतुं स्वीकर्तुम्, मुक्तिलच्म्या निर्वाणश्रिया, समीपे पार्श्वे, क्षिप्तं न्यस्तम्, कङ्कणं वा कटकं यथा, रेजे शुशुभे । शालिनीच्छन्दः ॥ ४१ ॥ यस्यां चेति-यस्यां च श्रीसभायाम्, गगनतलचुम्विनो नभस्तलस्पर्शिनः स्पन्दमानः संचलन् यो मन्दपवमानो मन्दसमीरणः तेन कन्दलवलमाना ध्वजाग्राः केत्वया येषु तथाभूता ये मानस्तम्भाः ते, चतुर्णा चतुःसंख्यानाम्, क्रोधादीनां कषायाणाम्, निरसनाय दूरीकरणाय, प्रसृतसंसल्लक्ष्मीविस्तृतसभाश्रीस्तस्यास्तर्जनकार्यस्य भर्त्सनकृतेः धूर्वहा भारधारकाः, व्यराजन्त व्यशोभन्त । १ मन्धरया मु० रसनाये जिह्वाग्रे, असत्या मिथ्या, वाणी, श्रवःप्रान्ते कर्णनेत्रसरणौ नयनमार्गे, परस्त्रीणां परकीयपुरन्ध्रीणाम्, रूपं व्यवसितिरुद्योगः, मुखे वक्त्रे, कोपालेशः क्रोधावेगः, न
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy