SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये कृतसुकृतविकसितं सहस्रारकल्पे देवभूयं चिरमनुभूय, महीतले महिलाभिरेताभिरष्टाभिः सह महीपतिरजायत । इति । राजहंसशिशोः पूर्वं मातापितृवियोजनात् । पित्रोश्चिराय विस्हं राजहंस त्वमास्थितः ॥ ३७ ॥ एवं योगीन्द्रवाणीमनुजनिजसतीस्निग्धवृन्दैः समेतः श्रुत्वा राज्याद्विभीतः कुरुपतिरशनेः पातनाद्वा भुजङ्गः । आनानम्य चैनं पुरवरमगमत्संसृतिव्यङ्गयसौख्यं मन्वन्हालाहलाभं तपसि निजमतिं सुस्थिरां संदधानः ।।३८।। तदनु वसुमतीवल्लभेन राज्यपरिपालनाय समादिष्टे युवराजे नन्दाढथे तपःसाम्राज्यमेव वरीतुकामे, कुरुवीरः पुनः संगतमङ्गलमुहूर्ते भगवत्पूजापुरःसरं विस्तारितमहोत्सवः प्रथितपराक्रमलक्ष्मीविहारप्रसादायमानभुजं गन्धर्वदत्तानन्दनं सकलकलाविलासनिधिं चापविद्यापारीणगुणं कीर्तिप्रतापविभवेन रूपसंपदा चात्मानमनुकुर्वन्तं सत्यन्धराह्वयं राज्यभारेऽभिषिच्य तमेवमवादीत् । असत्या वाणी ते तनय रसनाने न वसताच्छवः प्रान्ते वक्त्रं पिशुनवचनं नेत्रसरणौ । परस्त्रीणां रूपं मनसि च कुमार्गे व्यवसितिर्मुखे कोपावेशः सकलशशिबिम्बाभवदन ॥३॥ संप्राप्ता या जिनदीक्षा निर्ग्रन्थप्रव्रज्या तस्यां दुश्वरतपश्चरणेषु कठिनतपोऽनुष्टानेषु दक्षः समर्थः, सन्, अष्टाभिः कान्ताभिर्वनिताभिः, साकं सार्धम्, लोकोत्तरं जगच्छ्रेष्टम्, तपःप्रकारं तपश्चरणम्, आसाद्य प्राप्य, कृतं विहितं सुकृतस्य पुण्यस्य विकसितं विकासो यस्मिस्तत् सहस्रारकल्पे द्वादशस्वर्गे, देवभूयं देवत्वम्, चिरं दीर्घकालं यावत्, अनुभूय भुक्त्वा, एताभिः पुरोवर्तमानाभिः, अष्टाभिः अष्टसंख्याकाभिः, महिलाभिवनिताभिः, सह सार्धम्, महीपतिर्जीवन्धरमहाराजः, अजायत उदपादि । इति पुराभवम्, समाचष्टेति पूर्वसम्बन्धः। राजहंसशिशोरिति-हे राजहंस हे नृपोत्तम त्वम्, पूर्व प्राग्भवे, राजहंसशिशोर्मरालबालस्य, मातापितृवियोजनात् जननीजनकविरहात् ; चिराय दीर्घकालं यावत्, पित्रोर्मातापित्रोः, विरहं विप्रलम्भम्, आस्थितः प्राप्तः ॥ ३७ ॥ एवं योगीन्द्रेति-अनुजाः कनिष्ठभ्रातरो निजसत्यः स्ववल्लभाः स्निग्धाः स्नेहयुक्ता मित्रादयस्तेषां वृन्दैः समूहैः, समेतः सहितः, कुरुपति वन्धरः, एवं पूर्वोक्तप्रकाराम, योगीन्द्रवाणी मुनिराजभारतीम्, श्रुत्वा निशम्य, अशनेबज्रस्य, पातनान्मोचनात्, भुजङ्गो वा पन्नग इव, संसृतिव्यङ्गयसौख्यं भवोत्पद्यमानशर्म, हालाहलाभ तीव्रविषसदृशम्, मन्वन् जानन् , तपसि तपश्चरणे, सुस्थिरां सुदृढाम्, निजमति स्वमनीपाम्, संदधानः संघरन् , सन् , एवं योगीन्द्रम्, आनर्दी पूजयित्वा, आनम्य च नमस्कृत्य च, पुरवरं नगरश्रेष्ठं राजपुर मिति यावत्, अगमत् ययौ ॥ ३८ ॥ तदन्विति तदनु तत्पश्चात् , वसुमतीवल्लभेन भूपालेन, राज्यपरिपालनाय राजवैभवपरित्राणाय, समादिष्टे समाज्ञाते, युवराजे राज्यासनारोहणाह, नन्दाढ्ये गन्धोत्कटसुते, तपःसाम्राज्यमेव तपोराज्यमेव वरीतुकामे स्वीकर्तुकामे, सति, कुरुवीरो जीवन्धरः, पुनरनन्तरम्, संगतमङ्गलमुहूर्ते प्राप्तोत्तमलग्ने, भगवत्पूजापुरस्सरं श्रीजिनेन्द्रार्चासहितं यथा स्यात्तथा, विस्तारितमहोत्सवो विततीकृतमहोल्लासः, सन् , प्रथिता प्रसिद्धा या पराक्रमलचमीर्वीर्यश्रीस्तस्या विहारस्य विहरणस्य प्रासादायमानौ भवनायमानौ भुजौ बाहू यस्य तम्, गन्धर्वदत्तानन्दनं गन्धवदत्तादारकम्, सकलकलानां निखिलवैदग्धीनाम् विलासनिधि विभ्रमभाण्डारम्, चापविद्यायां धनुर्विद्यायां पारीणा निपुणा गुणा यस्य तम्, कीर्तिश्च प्रतापश्चेति कीर्तिप्रतापौ यशस्तेजसी तयोविभवेन ऐश्वर्येण, रूपसंपदा सौन्दर्यसम्पत्त्या च, आत्मानं स्वम्, अनुकुर्वन्तं विडम्बयन्तम्, सत्यन्धराह्वयमेतदभिधानं पुत्रम्, राज्यभारे नृपतित्वधुरि, अभिषिच्य, तं पुत्रम्, एवं वक्ष्यमाणप्रकारेण, अवादीत् जगाद। असत्या वाणीति-सकलशशिबिम्बाभं पूर्णरजनीरमणमण्डलसदृशं वदनं वक्त्रं यस्य तत्सम्बुद्धौ
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy