SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ जोवन्धरचम्पूकाव्ये कतिपय रेव दिवसैस्त्वामानेतुं नन्दाढ्य प्रहेप्यामि, इति प्रसवित्रीमाश्वास्यापृच्छय च, वयस्यमण्डलैः सह प्रस्थाय राजपूरोपवनमाजगाम । मित्राणि तत्र विनिवेश्य स वैश्यवेष ____ मादाय राजनगरी प्रविवेश धीरः । रथ्यासु तत्र विचरन्नवरत्नराशि ___ सम्पूरितां पविततां विपणिं जगाहे ।। ६० ।। तत्र हाङ्गणे सखीभिः सह कन्दुकविहारमनुभवन्त्याः कस्याश्चिल्लोलाक्ष्या हेलावशेन भुवि पातितं कन्दुकमालच्याश्चर्यविलक्षः कुरुहर्यक्षः प्रासादामावलम्बिनीं नितम्बिनीमुन्नमितवदनो विलोकयामास । तां कोमलाङ्गों कुतुकेन पश्यन्कुरङ्गनेत्री कुरुवंशकेतुः । उन्मीलदाभां नवयौवनेन पुन्नागसङ्काशकुचाममुह्यत् ॥ ६१ ॥ एवं तस्याः सौन्दर्यलहरीनिमनमानसः कन्दुकमालोक्यैवमुवाच । __ भाले क्रीडति नीलकुन्तलचये गण्डस्थले कुण्डले वेण्यां पृष्ठतले स्तनद्वयमुखे हारे चकोरीहशः । हस्ताब्जे मृदुले च कन्दुक भवांश्चिक्रीड वल्गन्मणी चञ्चत्कङ्कणशब्दशोभिनि निजस्पर्शारुणश्रीपुपि ॥६२।। कृतनिवासया भूयताम्, कतिपय रेव दिवसैः अल्पैरेव वासरैः, त्वां भवतीम्, आनेतुं स्वस्थानं प्रापयितुम्, नन्दाढ्यं निजानुजम्, प्रहेप्यामि प्रेपयिष्यामि, इत्येवम्, प्रसवित्री मातरम्, आश्वास्य सम्बोध्य, आपृच्छय च आमन्त्र्य च, वयस्यमण्डलमित्रसमूहैः, सह सार्धम्, प्रस्थाय प्रस्थानं कृत्वा, राजपुरोपवनं राजपुरनगरोद्यानम्, आजगाम सम्प्राप । मित्राणीति-तत्रोपवने, मित्राणि सखीन् , विनिवेश्य स्थापयित्वा. धीरो गभीरः, स जीवन्धरः, वैश्यवेपं वणिग्वेपम्, आदाय गृहीत्वा, राजनगरी स्वपुरीम्, प्रविवेश प्रविष्टो बभूव, तत्र राजपुर्याम्, रथ्यासु प्रधानमार्गेपु, विचरन् विहरन् , नवरत्नराशिभिनवरत्नसमूहैः सम्पू रिता सम्भृता ताम्, प्रविततां विस्तृताम्, विपणिमापणम्, जगाहे प्रविवेश । वसन्ततिलकावृत्तम् ॥६०॥ तत्रेति-तत्र विपणौ, हाङ्गणे भवनाङ्गणे, सखीभिर्वयस्याभिः, सह सार्धम्, कन्दुकविहारं गेन्दुकक्रीडाम्, अनुभवन्त्याः कुर्वन्त्याः, कस्याश्चित् , लोलाच्याश्चपललोचनायाः, हेलावशेन क्रीडावशेन, भुविपृथिव्याम्, पातितं मोचितम्, कन्दुकं गेन्दुकम्, आलच्य दृष्टा, आश्चर्येण विस्मयेन, विलक्षो विभ्रान्तचित्तः, कुरुहर्यक्षः कुरुसिंहः, जीवन्धर इति यावत्, प्रासादाग्रावलम्बिनीं भवनाप्रभागस्थायिनीम्, नितम्बिनी नारीम्, उन्नमितं वदनं यस्य तथाभूतः उन्मुखः सन् , विलोकयामास ददर्श । तां कोमलाङ्गीमिति-कुरुवंशकेनुः कौरववंशध्वजः जीवन्धरः, कोमलाङ्गीम् मृदुलशरीराम, कुरङ्गनेत्रीम् हरिणाक्षीम्, नवयौवनेन नूतनतारुण्येन, उन्मीलन्ती प्रकटीभवन्ती आभा दीप्तिर्यस्यास्ताम्, पुन्नागसङ्काशौ पुन्नागसदृशौ कुचौ स्तनौ यस्यास्ताम्, तां नारीम्, कुतुकेन कौतूहलेन, पश्यन् विलोकयन् सन् , अमुह्यत् मुग्धो बभूव ॥ ६१॥ ___ एवमिति एवमनेन प्रकारेण, तस्या नितम्बिन्या सौन्दर्यलहयाँ लावण्यसन्ततौ निमग्नं निलीनं मानसं चित्तं यस्य तथाभूतः, कुरुवतंसः कुरुवंशालङ्कारः, कन्दुकं गेन्दुकम्, आलोक्य दृष्ट्वा, एवं वक्ष्यमाणप्रकारेण, उवाच जगाद । भाले क्रीडतीति-चकोरीदृशो जीवंजीवलोचनायाः, भाले ललाटे, नीलकुन्तलचये श्यामलालककलापे, गण्डस्थले कपोलतले, कुण्डले कर्णाभरणे, पृष्ठतले पृष्ठभागे, वेण्यां कवर्याम्, स्तनद्वयमुखे वक्षोजयुगल १-२. कन्तुक-ब
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy