SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ अष्टमो लम्भः कूजद्रथाङ्गकलितानि शराञ्चितानि सेनावनानि मम वागदवा दहन्ति ।। ५६ ।। मदीयकरकुण्डली कृतशरासनादुद्गता __ पृषत्कभुजगावली रिपुमहीशवामध्रुवाम् । दरस्मितपयोझरी सुरभिलां निपीय क्षणाद् ददाति हृदयान्तरे पृथुलशोकहालाहलम् ॥ ५७ ॥ अथवा। रजोऽन्धकारप्रथिते रिपूणां वक्त्राजकोशीकरणप्रवीणे । संयन्निशीथे सति मे कृपाणी शत्रुश्रियं नेतुमुदारदूती ॥ ५८ ।। गुणाकरे रणाजिरे मयि स्वनच्छरासने __ पलायितो बलाधिपो निराकृतो धरापतिः । स गूर्जरोऽपि जर्जरो भयाकरश्च खेचरो धृतव्रणश्च कोकणः क्षणे क्षणे भविष्यति ।। ५६ ।। इत्यादितनयवचनेन हस्तस्थमिव राज्यं मन्यमानाया जनन्या रक्षणाय कञ्चन परिवार तद्योग्यवस्तुसञ्चयं च तत्सन्निधाववस्थाप्य, कञ्चन कालं वीतशोकया भवत्यात्र स्थीयताम् , परिवृतानि, कूजथाङ्गैः शब्दायमानचक्ररेव शब्दायमानचक्रवाकपक्षिभिः कलितानि सहितानि, शरैर्बाणैरेव तृणैरञ्चितानि सहितानि, सेना एव वनानि सेनावनानि पृतनाकाननानि, मम जीवकस्य, बाणदवाः शरदावानलाः, 'वने वनवह्नौ च दवौ दाव इहेष्यते' इत्यमरः । दहन्ति भस्मसात्कुर्वन्ति । श्लिष्टविशेषणोत्थापितरूपकालङ्कारः । वसन्ततिलकावृत्तम् ॥५६॥ मदीयेति-मदीयकरण मामकीनहस्तेन कुण्डलीकृतं वक्रीकृतं यच्छरासनं धनुस्तस्मादुद्भता निःसृता, पृपत्कभुजगावली बाणसर्पसन्ततिः, रिपुमहीशानां शत्रुपार्थिवानां वामभ्रुवो वनितास्तासाम्, सुरभिला सुगन्धिम्, दरस्मितपयोझरी मन्दहास्यदुग्धनिझरम्, क्षणादल्पेनैव कालेन, निपीय पीत्वा, हृदयान्तरे चित्तमध्ये, पृथुलशोकः प्रचुरखेद एव हालाहलविषम्, ददाति समर्पयति । रूपकालङ्कारः । पृथ्वीछन्दः ॥५७।। अथवेति-अथवा पक्षान्तरे। रजोऽन्धरकारप्रथित इति-रज एव सैन्यसमुत्थितधूलिरेवान्धकारस्तेन प्रथितं प्रसिद्ध तस्मिन् , रिपूणां शत्रूणाम्, वक्त्राब्जानां मुखकमलानां कोशीकरणे कुड्मलीकरणे प्रवीणं दक्षं तस्मिन् , संयदेवनिशीथं तस्मिन्युद्धरात्रौ, सति भवति, मे मम, कृपाणी खड्गवल्लरी, शत्रुश्रियं रिपुलमीम्, नेतुं समाकृष्टुम्, उदारदूती श्रेष्ठसन्देशहरा, अस्तीति शेपः ॥५॥ गुणाकर इति-गुणानां शौर्यादीनामाकरस्तस्मिन् गुणखनौ, रणाजिरे युद्धाङ्गणे, मयि त्वत्पुत्रे, स्वनन् शरासनो यस्य तथाभूते शब्दायमानकोदण्डे सति, बलाधिपः सेनापतिः, पलायितः प्रधावितः, धरापती राजा, निराकृतस्तिरस्कृतः, स प्रसिद्धः, गृर्जरोऽपि गूर्जरजनाधिपोऽपि जर्जरो जीर्णः, खेचरो विद्याधरः, भयाकरश्च भीतिखनिश्च, कोङ्कणश्च कोङ्कणजनपतिश्च, इतव्रणो वृतेर्मः, क्षणे क्षणे प्रतिक्षणम्, भविष्यति । मम पुरस्तात् कः स्थातुं शक्नुयादिति भावः । पञ्चचामरं छन्दः 'जरौ जरौ ततो जगौ च पञ्चचामरं वदेत्' इति लक्षणात् ॥५६॥ इत्यादीति–इत्यादितनयवचनेन पूर्वोक्तप्रभृतिपुत्रगिरा, राज्यं साम्राज्यम्, हस्तस्थमिव स्वपाणिस्थितमिव, मन्यमानाया जानानायाः, जनन्याः सवित्र्याः, रक्षणाय त्राणाय, कञ्चन कमपि, परिवारं परिजनम्, तद्योग्यवस्तुसञ्चयञ्च तदर्हवस्तुसमूहञ्च, तत्सन्निधौ तत्समीपे, अवस्थाप्य स्थितं कृत्वा, कञ्चन कालं कमपि समयं यावद्, भवत्या, वीतशोकया निर्गतविषादया सत्या, अत्र दण्डकारण्यस्थतपोवले, स्थीयताम्
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy