SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये तदा वधूटीमवलोक्य सोऽयं ननद मन्देतरविस्मयेन । निजप्रभापूरतरङ्गमध्ये वक्षोजतुम्बीफलतः प्लवन्तीम् ।।५।। सरोजयुग्मं बहुधा तपःस्थितं बभूव तस्याश्चरणद्वयं ध्रुवम् । न चेत्कथं तत्र च हंसकाविमो समेत्य हृद्यं तनुतां कलस्वनम् ॥५१॥ विभान्ति तस्या नखराः पदांशुरक्ताननाः किंच विरिञ्चिक्लृप्ताः । अन्याङ्गनावक्त्रविलोकनाय विनिर्मलाः सन्मणिदर्पणा वा ॥५२॥ आपाटलैनखैरस्या जिग्ये कुरवकच्छविः । अशोकपल्लवो नूनमज्रिपङ्कजरोचिपा ॥५३॥ जङ्गायुगं खेचरकन्यकाया अवैमि पञ्चायुधतूणयुग्मम । यद्वा निशानाय च वज्रशाणोपलं शराणां कुसुमायुधस्य ॥५४।। मनोजगेहस्य तदङ्गकस्य वक्षोजवप्रेण विराजितस्य । ऊरुद्वयं स्तम्भनिभं विरेजे प्रतप्तचामीकरचाररूपम् ।।५५।। स्तेन, इन्दुकरस्पर्शात् चन्द्रकिरणसंपर्कात्, चन्द्रकान्तशिला यथा शशिकान्तमणिशिलेब, समजायत बभूव । नायककरस्पर्शेन प्रस्वेदवती बभूवेति भावः ॥४६॥ तदेति-तदा पाणिग्रहणवेलायाम, निजप्रभापूरस्य स्वकान्तिप्रवाहस्य तरङ्गा भङ्गास्तेषां मध्ये, वक्षोजी स्तनावेव तुम्बीफले अलावूफले ताभ्याम्, प्लवन्तीं तरन्तीम्, वधूटी युवतिम्, अबलोक्य दृष्ट्वा, सोऽयं जीवन्धरः, मन्देतर विस्मयेन विपुलाश्चर्येण, ननन्द समृद्धियुक्त बभूव । 'टुनदि समृद्धी' इत्यस्य लिटि रूपम् ॥ ५० ॥ सरोजयुग्ममिति-बहुधा बहुप्रकारेण, आतपे धर्मे स्थितं विद्यमानम्, पक्षे तपःसु तपश्चरणेषु स्थितं विद्यमानम्, सरोजयुग्मं कमलयुगलम्, ध्रुवं निश्चयेन, तस्या गन्धर्वदत्तायाः, चरणद्वयं पादद्वन्द्वम्, बभूवाजायत, तपःस्थितस्य किं दुर्लभमिति भावः । न चेत् ? एवं न स्यात्तहि, इमो हंसको नूपुरौ पक्ष मञ्जीरके, तत्र चरणयुग्मे, समेत्य संगत्य, हृद्यं मनोहरम्, कलस्वनमव्यक्तमधुरशब्दम्, कथं केन कारणेन, तनुतां विस्तारयताम् । नपस्थितमित्यत्र खर्परे शरि वा विसर्गले पो वक्तव्यः' इति वार्तिकेन वैकल्पिको विसर्गलोपः । श्लपानुप्राणितोत्प्रक्षा ॥ ५५ ॥ विभान्तीति-किञ्च, अन्यच्च, पदयोश्चरणयोरंशुभिः किरण रक्तं लोहितमाननमग्रभागो येपां ते, तस्या वध्वाः, नखरा नखाः अन्याश्च ता अङ्गनाश्चेन्यन्याङ्गाना इतरवनितास्तासां वक्त्रस्य मुखस्य विलोकनं दर्शनं तस्मै, विरिञ्चिना ब्रह्मणा क्लसा रचिताः विनिर्मलाः स्वच्छतराः, सन्मणिदर्पणा वा सुरत्नादर्शा इव, विभान्ति शोभन्ते । 'वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये' इत्यमरः ।। ५२ ॥ आपाटलैरिति-अस्या गन्धर्वदत्तायाः आपाटलैः श्वेतरक्तः नखैनखरैः, कुरवकस्य पुष्प विशेपस्य छविः कान्तिः, जिाये जिता । अधिपङ्कजयोश्चरणकमलयो रोचिः कान्तिस्तेन, अशोकपल्लवः कङ्केलिकिसलयः, नृनमिन्यवधारणे, जिग्ये जितः ।। ५३ ।। जवायुगमिति-खेचरकन्यकाया विद्यावरपुत्र्याः, जङ्घायुगं प्रसृतायुगलम् , पञ्चायुधस्य कामस्य तूणयोरिपुध्योयुग्मं द्वयमिति पञ्चायुवतूणयुग्मम्, अवैमि जानामि यद्वाथवा, कुसुमायुवस्य कामस्य, शराणां बाणानाम् , निशानाय तीचीकरणाय, च, वज्रशाणोपलं भिदुरनिकपपापाणम्, अवैमीति क्रियया सम्बन्धः ।। ५४ ।। मनोजगहस्येति-प्रतप्तस्य निष्टप्तस्य चामीकरस्येव सुवर्णस्येव चारु मनोहरं रूपं यस्य तत् , उरुद्वयं सक्थियुगलम्, वक्षोजवप्रेण स्तनधूलिकुट्टिमेन 'वप्रः स्याद् धूलि कुट्टिमम्' इति धनंजयः, विराजितस्य शोभितस्य, तदङ्गकस्य तच्छरीरस्य, मनोजगेहस्य कामनिकेतनस्य, स्तम्भनिभं स्तम्भसदृशम् , विरेजे शुशुभे ।। ५५ ।।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy