SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचरणका सैरन्ध्रीजनकरकल्पिता तस्याः कोलतलमकरी, मकर केतोः पनाकेयमिति समागता साक्षा मःमथबैजयन्तीमकरीब, गण्डमण्डललावण्यसगेवरे निपततां भुवनंत्रपतता बन्धनाय वेधला विरचितः पाश इव, व्यराजत। तस्याः कपोलललितौ मृगनाभिक्लृप्त पत्रच्छलेन कचन्दतमःकिशोरी । द्राग्बाधितुं रवियुगं किल कर्णशोभि । ताटङ्कयुग्ममधिकं कमचे मृगाच्याः ।।१३।। जगत्त्रयजयायास्या वल्गतः पुष्पधन्वनः । सवाणतूणबद्रेजे पुष्पचारु कचब्रजम् ।। ४४।। तस्याः शरीरातनुचापयष्टेमौर्वीव रेजे फणितुल्यवेणी । सखीप्रक्लृप्ता मुखपद्मगन्धलोभागता भृङ्गपरम्परेक ॥४५॥ एवमलकृताभ्यां ताभ्यां यथास्थानं जनेन विनिवेशिताभ्यां परिष्कृता मणिदीपमङ्गलद्रव्यशोभिता मणिवेदिका सुरदम्पतीसगता रत्नसानुतटीव व्यरोचत । डिण्डीरपिण्ड इबाचरतीति तथा, सुममालिकां च गुप्पस्त्रजञ्च, आस्ये सुग्वे, वक्त्रमेवेन्दुर्वक्वेन्दुर्भुवचन्द्रस्तरण लक्ष्मेव चिह्नमिवावरतीति तथा नीलललाटिकां नीलमणिललाटाभरणम्, आक्रमणमाक्रमः, आनन जाम आननाक्रमस्तं कुरुत इत्याननाक्रमकृती तयोः मुखाक्रमणकारिणोः स्वविशालतयेति यावत, अक्षणोनयनयोः, सीम्नोऽवधेरन्तः सीमान्तस्तस्य रेखा लेखा तामिच, इताऽयो भवतोः प्रसरणं निपिमिति सीमनिश्चयार्थभिव, अञ्जनं कजलम्, विदधे चकार । उपमोत्प्रेक्ष् ॥ ४२ ॥ सैरन्ध्रीति-सैरन्ध्रीजनस्य प्रसाधिकाज नस्य करेग हस्तेन कल्पिता रचिता, तल्या गादत्तायाः, कपोततले गण्डतले मकरी कस्तूर्यादिना रचिता मकराकृतिविशेषः इयं कन्या, मकरतोः कामम्य, पनाका केतुः, इति हेतुना, समागता समायाता, साक्षात्प्रत्यक्षम्, मन्मथस्य मदनस्य वैजयन्तीमकरीव ध्वजगत. मकरस्त्रीव, गण्डमण्डलस्व कपोलचक्रवारस्य लावण्यमेव सरोवरः कासारस्तस्मिन् , निपततां स्खलताम, युवनेत्राण्येव पनन्तस्तेषां तकगलोचनपक्षिणाम्, बन्धनाय बन्धनार्थम्, वेधसा ब्रह्मणा, विरचितः कृतः, पाश इबानाय इव, व्यराजत व्यशोभत । उत्प्रेक्षा। तस्या इति-मृगल्येवाक्षिणी यस्यास्तस्याः कुरङ्गालोचनाया गन्धर्वदत्तायाः, कर्णयोः शोभत इ येवं शीलं कर्णशोभि श्रवणयोः शोभमानम, तारयुग्मं कर्णाभरणयुगलम्, मृगनाभिना कस्ता क्ट रविन यापन पत्राकृतिरचनाविशेषस्तस्य च्छलेन व्याजेन, तस्या गन्धर्वदत्तायाः कपोलयोगपडयोः, फलिता प्रतिविम्वितो, कचन्दतमःकिशोरी केशसमूहान्धकारबालको, दाग झटिति, बाधितुं नायितुम्, रवियुगं किल सूर्ययुग्ममिव, अधिकं सातिशयम, रुरुचे शुशुभे । उत्प्रेक्षा ॥ ४३ ॥ जगत्त्रयेति-अस्याः खेचरसुतायाः, पुप्पैश्वारु पुष्पचारु कुसुमकमनीयम, कचनजं कंशसमूहः, जगन्त्र यजयाय भुवनत्रयविजयार्थम्, बल्गतश्चलतः, पुष्पधन्वनः कामस्य, सवाणनृणवत ससायकणीरमिव, रंजे शुशुभे ॥४४॥ तस्या इति-तस्या गन्धर्वदत्तायाः, सख्या सहचर्या प्रक्लप्सा रचितेति सखीग्रक्लप्सा सहचरीरचिता, फणितुल्या नागसदृशी चासो वेणी च कवरी चेति फणितुल्यवेणी, अतनोः कामस्य चापयष्टिधनुर्यष्टिरित्यतनुचापयष्टिः, शरीरमेव यमैवातनुचापयष्टिरिति शरीरातनुचापयष्टिस्तस्याः, मौर्वीय ज्येव, मुखमेव पद्मं मुखपद्मं वक्त्रवारिजं तस्य गन्वस्य सुरभेर्लोभेन तृष्णयागता प्राति तथा, भृङ्गपरम्परेव भ्रमरश्रेणिरिव, रेजे शुशुभे । उत्प्रेक्षा ॥४५॥ एवमिति-एवमनेन प्रकारेण, जनेन प्रसाधिकावर्गेण, अलङ्कृताभ्यां शोभिताभ्याम्, यथास्थानं १ द्रव्यादि ब०।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy