SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ द्वितीयो लम्भः दण्डाः, लक्ष्मीविहारलीलाडोलायितमुक्तादामविराजितवक्षःस्थलाः, ते जीवन्धरप्रमुखाः, कार्मुकटङ्कारक्ष्वेलारवमुखरितदिशावकाशाः संयदङ्गणं समाजग्मुः। प्रविदारणमाविरास तत्र प्रथमं वाणगणैः परस्परम् । अरुषा च रूपा क्षणं विहीनं विशिखादायभवच्छिखी यतः ॥२७॥ नखांशुमयमञ्जरीसुरभिलां धनुर्वल्लरों समागतशिलीमुखां दधदयं हि जीवन्धरः । अनोहक इवावभौ भुजविशालशाखाञ्चितो ___ निरन्तरजयेन्दिराविहरणैकसंवासभूः ॥२८।। कुण्डलीकृतशरासनान्तरे जीवकाननममर्पपाटलम् । स्पर्धते परिधिमध्यमास्थितं चन्द्रविम्वमिह सन्ध्ययारुणम् ॥२६॥ जीवन्धरेण निमुक्ताः शरा दीपा विरेजिरे। विलीनान्समिति व्याधान्द्रष्टुं दीपा इवागताः ॥३०॥ तदनु जिष्णुचापचुम्बिजीवन्धराम्बुधरनिरवग्रहनिमुक्तशरधाराभिः कालकूटबलप्रतापानले मुरःस्थलं येषां ते, ते पूर्वोक्ताः, जीवन्धरः सात्यन्वरिः प्रमुखः प्रधानो येषां तथाभूताः, कार्मुकटङ्कारश्च कोदण्डमौर्वीशब्दविशेषश्च चवेलारवश्च सिंहनादश्चेति कार्मुकटङ्कारच्वेलारवी ताभ्यां मुखरिता वाचालिता दिशावकाशाः काष्ठामध्यप्रदेशा यैस्तथाभूताः सन्तः, संयदङ्गणं युद्धाङ्गणम्, समाजग्मुः समाययुः ।। प्रविदारणमिति-तत्र समराङ्गणे, प्रथमं पूर्वम्, परस्परमन्योऽन्यम्, बाणगणेः शरसमूहः, तत् प्रविदारणं युद्धम्, आविरास प्रकटीबभूव यत् क्षणमल्पकालं यावत् , रुपा क्रोधेन, अरुषा क्रोधाभावेन च बिहीनमासीदिति विरोधः, परिहारपक्षे 'अरुपा' इत्यस्य 'व्रणेन' इत्यर्थों ग्राह्यः, 'व्रणोऽस्त्रियामीममरुः' इत्यमरः । किञ्च, यतो यत्र, सार्वविभक्तिकस्त सिल , विगता शिखा यस्य स विशिखः शिखारहितस्तस्मादपि, शिखास्ति यस्य स शिखी शिखायुक्तः, अभवद्वभूवेति विरोधः, विशिग्वाद् बाणादपि शिखी वह्निरभवदिति परिहारः । विरोधाभासोऽलङ्कारः ।। २७ ॥ नखांशुमयेति-नखांशुमय्यो नखराश्मिरूपा या मञ्जयः पुष्पस्त्रजस्ताभिः सुरभिला सुगन्धिता ताम्, समागताः प्राप्ताः शिलीमुखा बाणाः पक्षे भ्रमरा यस्यां ताम्, धनुर्वल्लरी चापलताम्, दधत् विभ्रत्, भुजा एव विशालशाखा इति भुजविशालशाखा बाहुदीर्घशाखास्ता रिञ्चितः शोभितः, निरन्तरं शश्वत् जयेन्दिराया विजयलक्ष्म्या विहरणस्य विहारस्यकसंवासभूमुख्यनिवासभूमिः, अयं जीवन्धरः एप सात्यन्धरिः, अनसः शकटस्याकं गतिं हन्तीत्यनोकहो वृक्षः स इव, आबभौ शुशुभे । रूपकोपमे । पृथ्वीच्छन्दः 'जसौ जस यला वसुग्रहयतिश्च पृथ्वी गरुः' इति लक्षणातू ॥२८॥ कुण्डलीकृतेति-कुण्डलीकृतं वर्तुलीकृतं यच्छरासनं धनुस्तस्यान्तरे मध्ये स्थितमिति शेपः, अमर्पण क्रोधेन पाटलं श्वेतरक्तमित्यमर्पपाटलम्, जीवकस्य जीवन्धरस्याननं मुखमिति जीवकाननम्, इह लोके, परिधिमध्यं परिवेषाभ्यन्तरम्, आस्थितं विद्यमानम्, सन्ध्यया सायम् 'सायं सन्ध्या पितृप्रसूः' इत्यमरः, अरुणं रक्तवर्णम्, चन्द्रबिम्ब शशिमण्डलम्, स्पर्धतेऽसूयति । उपमालंकारः। रथोद्धतावृत्तम्, रान्नराविह रथोद्धता लगौ' इति लक्षणात् ।। २६ ॥ , जीवन्धरेणेति-जीवन्धरेण विजयासुतेन, निर्मुक्तास्त्यक्ताः, दीप्ता दीप्तिमन्तः, शरा बाणाः, समिति युद्धे, विलीनान् तिरोहितान् व्याधान् , किरातान् , द्रष्टुमवलोकयितुम्, आगता आयाताः, दीपा दीपका इव, विरेजिरे शुशुभिरे । उत्प्रेक्षा ॥ ३० ॥ तदन्विति-तदनु तदनन्तरम्, जिष्णुचापं विजेतृधनुः पक्षे शक्रशरासनं चुम्बति दधाति जिष्णुचापचुम्बी स चासौं जीवन्धरश्च, स एवाम्बुधरो मेघस्तेन निरवग्रहं निष्प्रतिबन्धं यथा स्यात्तथा निर्मुक्तास्त्यक्ता याः शरधारा वाणपङ्क्तय एव जलधारास्ताभिः, कालकूटस्य शबरराजस्य बलं सैन्यं तस्य
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy