SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ५० जीवन्धरचम्पूकाव्ये तदनु पुलिन्दसंदोहतो गोविमोक्षणं विधास्यते दास्यते गोपेन्द्रनन्दगोपनन्दिनी सप्तचामीकरपुत्रिकाभिः साकमिति पटुतरं पुटभेदनचत्वरे काष्ठाङ्गारेण कारितां घोपणां निशम्य विशालतरकतुकः सात्यंधरिस्तदोपं निवारयामास । सहायताधिष्ठितपार्श्वभागो जीवन्धरो मन्दिरतः प्रतस्थे । द्विपैरनेकैः परिवार्यमाणो हिमाद्रिरन्ध्रादिव यूथनाथः ।। २६ ।। तता निजयशःकलशार्णवतरङ्गैरिव चामरयुगलपरिशोभितपार्श्वतया नभःसरणिसञ्चरणयोग्यौ पक्षाविव विभ्राणैः लपनबिलतलविगलितफनशकलदन्तुरितपुरोभागतया ग्यविजितपवनसमानीतमुक्तोपहारानिवाङ्गीकुर्वाणैः स्यदनिरीक्षणक्षणहीणान्हरिदश्वहरिताश्वान्गगनकाननदुर्गेपु धावमानानम्वेष्टुमिव गगनसरणिमुत्पतद्भिर्जयोदः ककैः परिष्कृतान्रथानलंकुर्वन्तः, शताङ्गचक्रक्षुण्णक्षितितलोद्भूतधूलिकापालिकां सकलजगदन्धंकरणधुरीणां पताकापटपवनेन धून्वन्तः, देहबद्धा इव वीररसाः, मूर्ता इवोत्साहाः, जयलक्ष्मीनिवासमन्दिरकनकप्राकारायिताङ्गदविभ्राजितभुज तदनु पुलिन्देति तदनु तदनन्तरम्, पुलिन्दसन्दोहतः शबरसमूहात् , गवां धेनूनां विमोक्षणं प्रत्याहरणं तदिति गोविमोक्षणम्, विधास्यतीति विधास्यन् तस्मै करिष्यते 'लुटः सद्वा' इति भविष्यदर्थे लूटः शतृ प्रत्ययः, जनायेति शेपः, सप्त च ताश्चामीकरपुत्रिकाश्च सुवर्णपुत्तलिकाश्चेति ताभिः, साकं साधम्, गोपेन्द्रश्वासौ नन्दगोपश्चेति गोपेन्द्रनन्दगोपस्तस्य नन्दिनी पुत्री, दास्यते वितरिप्यते प्रदत्ता भविष्यनीति भवः, इन्येवं प्रकाराम, पटुतरं तिग्मतरं यथा स्यात्तथा, पुटभेदनस्य पत्तनस्य चत्वरं चतुप्पथं तस्मिन् 'पू: स्त्री पुरीनगर्यो वा पत्तनं पुटभेदनम्' इत्यमरः, काष्टाङ्गारेण नृपेण, कारितां विधायिताम्, घोपणां सूचनाम्, निशम्य अन्वा विशालतरं महत्तरं कुतुकं कौतूहलं यस्य तथाभूतः, सात्यन्धरिर्जीवन्धरः, तोपं तां घोषणाम्, निवारयामास प्रतिपेधयामास । सहायतेति-सहायानां मित्राणां समूहः सहायता ‘गजसहायाभ्यां चेति वक्तव्यम्' इति समूहार्थे तल प्रत्ययः, तयाधिष्टितो युक्तः पार्श्वभागो निकटप्रदेशो यस्य तथाभूतः, जीवंधरः सान्यन्धरिः मन्दिरतो भवनात् , अनेकैबहुभिः, द्विपैगजैः, परिवार्यमाणः परिवेष्टयमानः, युथनाथो गणपतिः गजसमूहपतिरिति यावत् , हिमा हिमालयस्य रन्ध्रादिव विवरादिव, प्रतस्थे प्रययौ ॥ २६ ॥ ततो निजयश इति-ततः प्रस्थानानन्तरम्, निजयशः स्वकीयकीर्तिरेव कलशार्णवः क्षीरसागरस्तस्य तरङ्गैरिव कल्लोलरिव, चामरयुगलेन बालव्यजनयुग्मेन परिशोभितं समलङ्कृतं पार्श्वमुभयतटं पां तेषां भावस्तत्ता तया, नभःसरणौ गगनमार्गे सञ्चरणयोग्यौ प्रयाणाहौं, पक्षौ गरुतौ, बिभ्राणर्दधद्भिरिव, लपनविलतलान्मुखरन्ध्रतलाद्विगलितानि पतितानि यानि फेनशकलानि डिण्डीरभित्तानि तैर्दन्तुरितो व्याप्तः पुरोभागोऽग्रप्रदेशो येषां तेषां भावस्तत्ता तया, रयेण वेगेन विजितः पराभूतो यः पवनो वायुस्तेन समानीताः समर्पिता ये मुक्तानामुपहारा मौक्तिकोपायनानि तान्, अङ्गीकुर्वाणरिव स्वीकुर्वद्भिरिव, स्यदस्य वेगस्य निरीक्षणक्षणे विलोकनवेलायां हीणा लज्जितास्तान् , अतएव गगनकाननमेव नभोटव्येव दुर्गा दुर्गम्यस्थानानि तेपु, धावमानान् पलायमानान्, हरिदश्वस्य भास्वतो हरिताश्वा हरिद्वर्णहयास्तान् 'भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः' इत्यमरः, अन्वेष्टुमिव मार्गयितुमिव, गगनसरणिं गगनमार्गम्, उत्पतद्भिरुद्गच्छद्धिः, जयोदविजयफलेः, कः श्वेताश्वैः, परिष्कृतान् सहितान्, रथान् स्यन्दनान् , अलंकुर्वन्तः शोभयन्तः, सकलजगतो निखिललोकस्यान्धंकरणे दृष्टयपहरणे धुरीणा निपुणा ताम्, शताङ्गानां स्थानां चक्र रथाङ्गैः क्षुण्णाद् विदारितात् क्षितितलामृतलाद् उद्धृतोत्पन्ना या धूलिकापालिका रेणुसन्ततिस्ताम्, पताकापटपवनेन वैजयन्तीवस्त्रवायुना, धून्वन्तो दूरीकुर्वन्तः देहबद्धाः शरीरधारिणः, वीररसा इव-उत्साहस्थायिभावकरसा इव, मूर्ताः सशरीराः, उत्साहा इव स्फूर्तिसमूहा इव, जयलक्ष्म्या विजयश्रिया यन्निवासमन्दिरं निवासभवनं तस्य कनकप्राकारायितं सुवर्णपरिधीयमानं यदङ्गदं केयूरं तेन विभ्राजितः शोभितो भुजदण्डो बाहुदण्डो येषां ते, लचस्याः श्रिया विहारः क्रीड़ा तस्य लीलाडोलायितं केलिहिन्दोलिकावदाचरितं यन्मुक्तादाम मौक्तिकं सक् तेन विराजितमलंकृतं वक्षःस्थल
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy