________________
श्रीजैनकुमारसम्भवाख्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (६९
(व्या०) शिर इति ॥ शचीपति च्या पति रिद्रः इत्यमुना प्रकारे स्फुरश्चासौ भक्तिरसश्च (स्त्रियां क्ति | ५ । ३ । ९१ । इ. सू. भज्यातो स्त्रियां भावे ति ।) तस्योर्मय कल्लोलास्तै निर्मलं स्तोत्रस्य (नीदांव् शस् युयु जास्तु तुद सिसि च मिहपतपानहाट् । ५ । २ । ८८ । इ. सू. स्तुधातो. करणेत्रट् ।) वच तत् स्तुतिवचः प्रचक्रमे प्रारमे । किं कुर्वन् लसदंगुलीदले लसन्तिअंगुलय एव दलानि यस्मिन् तत् तस्मिन् तत्पदाजयुगे तस्य भगवत पदाब्जयोश्चरणकमलयोयुमे विनम्य नत्वा स्वं शिरं मस्तकं इन्दिदरयन भ्रमरपत् कुर्वन् ॥ ४८॥
अथस्तोत्रवचः प्राह महामुनीनामपि गीरगोचरा-खिलस्वरूपास्तसस्तदूषण । जयादिदेव त्वमसत्तमस्तम-प्रभाप्रभावाल्पितभानुवैभव ।। ४९ ॥
(व्या०) महामुनोनामिति ॥ मन्यते त्रिकालावस्थामिति मुनयः महा-तश्चते मुनयश्च (विशेषण विशेष्येणैकार्थ कर्मधारयश्च । ३ । १ । ९६ । इ. सू. विशेषण पूर्व पद कर्मधारय ।) तेषा मपि गिरा वाणीनां अगोचरं अखिल समस्तं स्वरूपं यस्य तस्य संबोधने । हे अस्तसनस्तदूषण अस्तानि अपाकृतानि समस्तानि सर्वाणि दूपणानि येन स तस्य संबोधने । हे आदिदेव । असदविद्य. मानं तमः पापं यस्याः सा असत्तमा प्रकृष्टा अतिशयेन असत्तमाः असत्तमस्तमा अतीव निष्पापा चासौ प्रमा च (उपसर्गा दातः । ५ । ३ । ११० । इ. सू. प्रपूर्वक भाधातो. स्त्रियामड् आत् इ. सू. आप । ) तस्याः प्रभावेण (भावाऽको । ५ । ३ । १८ । इ. सू. प्रपूर्वक भूधातो वे धम् ।) अल्पितमल्पीकृतं भानो स्व. चैभवं प्रभुत्वं येन स तस्य संबोधने एवं विधस्त्वं जय सर्वोत्कर्षेण वर्तस्व । जयः परैरनभिभूयमानता प्रतापदृष्टिश्चेत्यर्थः ॥ ४९ ॥ गुणास्तवांकोदधिपारवर्तिनो, मतिःपुनस्तच्छफरीब मामकी। अहो.महाधाष्टर्यमियं यदीहते, जडाशया तत् क्रमणं कदाशया ॥५०