SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ૨૮)શ્રીનરૂમમવાન્ય મળ્યમ ટીસમન્વતમ્ ૧ લવ ऊहेन विचारेण विवशा परवशा सती। अक्रमविकीर्णतारकं न कम: अक्रमः अक्रमेण विकीर्णा विक्षिप्तास्तारका यस्मिन् तत् अभ्रनाकाशं निशामयन्ती निशामयतीति निशामयन्ती पश्यन्ती एवमिति किं इदं फुलमालक फुला: मल्लिका यस्मिन् तत् विकसितविचकिलकुसुमं किमु वनं वर्तते । अथवा स्मेरकैरवगण स्मेरा: (स्म्यजसहिंसदीपकम्पकमनमोरः । ५-२-७९ । इ. मू. शीलादिसदर्थे स्मिधातो रप्रत्ययः । ) विकस्वराः कैरवाणां कुमुदानां गणाः समूहाः यस्मिन् तत् विकस्वरकुमुद्रसमूहं सरो वर्तते । पुनः स्खलनात् इति खलनतः बिभेतीति विभ्यती सती प्रांजलेऽपि सरलेऽपि पथि मार्गे शेन शनै पदो चरणौ मुश्चती अल्पकेऽपि स्तोकेऽपि भवनान्तरे भवनस्य अन्तरं तस्मिन् गते सति स्तानवेन गतिलाघवेन भवनान्तरीयिता अन्यत् भवनं भवनान्तरं भवनान्तरमाचरती भवना-तरीयिता । पुनः स्वमात्मानं तिरोहितवती आच्छादितवती। दिविषत्पुरन्ध्रिभीः दिविसीदन्तीति दिविषदो ( किप् । ५-१-१४८ । इ. सू. दिवशब्दपूर्वसद्धातोः कर्तरि कि५ । ) देवास्तेषां पुरन्ध्रयः ताभिः देवाङ्ग नाभिः कौतुकाय अग्रत: शोध्यमानसरणिः शोध्यमाना सरणिर्मार्गो यस्याः सा विलोक्यमानमार्गा। अथ पुनः शिरसि मस्तके आधीयमानधवलातपत्रिका आधीयते इति आधीयमाना आधीयमाना धवला श्वेता आतपत्रिका यस्याः सा धार्यमाणश्वेतछत्रा 'वनितनूपुरक्रमा ध्वनिते नू पुरे ययोस्तो ध्वनितनू पुरौ ध्वनितनू पुरौ क्रमौ यस्याः सा। अवसरवेदिना इव अवसरं वेत्तीति अवसरवेदी तेन इव अवसरज्ञसहशेन वायुना दभ्यमानगमनश्रमा इभ्यमानो गमनस्य श्रमो यस्याः सा निर्गम्यमानगमनश्रमा । २४ । २५ । २६ । २७ ॥ कान्तमन्दिरमुपेत्य सा चिरा-शंसितार्थपरिपूरिताशया। सारसंमदमहाबलेरिता, स्वं निकेतनमियाय नौरिव ॥ २८॥ (व्या०) कान्तमिति । सा सुमङ्गला कान्तमन्दिरं कान्तस्य स्वामिनो मन्दिर उप्रेत्य प्राप्य अचिराशसितार्थपरिरिताशया अचिरेण स्तोककालेन आशंसितः कथित अर्थः स्वप्नार्थलक्षणस्तेन परिपूरित आशयोऽभिप्रायो यस्याः सा
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy