SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३०४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग: ९ सेतुवत् पालिवत् सेतुना तुल्यं नोपयुज्यते न उपयोगमेति । हन्त इति वितर्के यदि त्वया ताविषः ( तवेर्वा । ५५० । इ. उ. सू. तव गतौ इति सौत्रधातोः टित् इष प्रत्ययः स च णित् वा णित्त्वात् वृद्धिः तव्यते गम्यते शुभकर्मवशात् अस्मिन् इति ताविषः ।) स्वर्गोऽत्यज्यत व्यक्त ' स ताविष' स्वर्गे ममापि विषोपमः विषं उपमा यस्य स विषोपम न अस्तु अपितु अस्त्वेव ॥ ६६ ॥ ६७ ॥ ॥ ६८ ॥ त्रिभिर्विशेषकम् । विलोकितें रत्नगणे स ते सुतः, स्थितौ दधानः किल काञ्चनौचितिम् । उदंशुमत्रासमुपास्य विग्रहं, महीमहेन्द्रैर्महितो भविष्यति ।। ६९ ।। ( व्या० ) विलोकिते इति । हे प्रिये किल इति सत्ये ते तव स सुतःपुत्रः रत्नानां गणः समूहस्तस्मिन् रत्नगणे विलोकिते दृष्टे सति रत्नगणवत् उदशं उगता अंशवो यस्य तं उद्गतकिरणम् । अत्रासं न विद्यते त्रासो भयं यस्य तं भयरहितं दवरकरहितं वा विग्रहं युद्धं शरीरं वा उपास्य संसेव्य महीमहेन्द्रैः नह्या' पृथिव्याः महेन्द्रास्तै' महेन्द्रैर्वा पृथ्वीसत्कराजभिर्महितः पूजितो भविष्यति। किं कुर्वाणस्तवसुतो रत्नगणश्च स्थितौ मर्यादायां काञ्चन अपूर्वा औचितिं योग्यतां दधानः (शत्रानशा वेष्यति तु सस्यौ । ५-२-२० । इ. सू. सदर्थे धाधातोः आनश् प्रत्ययः ) धत्ते इति दधानः पक्षे स्थितौ अवस्थाने काञ्चने सुवर्णे. औचितिं दधान ॥ ६९ ॥ न रोहणे कर्कशतागुरौ गिरौ, न सागरे वाऽनुपकारिवारिणि । अहं गतो निर्मलधामयोग्यतां, शुचौ सभीहे तव धानि तु स्थितिम् ७०परार्थवैयर्थ्यमलीमसं जनुः, पुनीहि मे संततदानवारिणा । तवेति वा प्रार्थयितुं स गर्भगः सुखं सिषेवे किमु रत्नराशिना ॥ ७१ ॥ " 1 (व्या०) नेति । हे प्रिये वा अथवा तव स गर्भग' (नाम्नो गम खड्डौ च विहायसस्तु विहः । ५- १ - १३१ । इ. सू. गर्भगब्दपूर्वक गमधातोर्डः डित्वात् अन्त्यस्वरादि लोप. 1) पुत्र रत्नराशिना रत्नानां राशि समूहस्तेन रत्नसमूहेन इति प्रार्थयितुं किमु इति किं सुखं सिपेवे सेवित । इतीति किं अहं
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy