SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ श्रीजैनकुमारसम्भवाख्यं मद्दी काव्यम् टीकासमलंकृतम् ॥ सर्गः ९ (२९५ अत्र वा इवार्थे स्रजो मालायाः छलात् भिषात् स्मरः कामः रोपं वाणं व्यसृजत् प्रहितवान् । इदमिति किं भवान् गृही गृहस्थः सन् मम आदेशवशः आदेशस्य चशो भवेत् वशेन भवितव्यमिति भावः । च अन्यत् गृहीतदीक्षस्य गृहीता दीक्षा येन तस्य ते तच अहं प्रभुः समर्थो नास्मि ॥ ४६ ॥ ་ यदिन्दुरापीयत पार्वणस्त्वया, ततः सुवृत्तो रजनीघनच्छविः । - सदा ददानः कुमुदे श्रियं कला - कलापवांस्ते तनयो भविष्यति ॥ ४७ ( व्या० ) यदिति । हे प्रिये यत् पार्वणः पर्वणि पौर्णमास्यां भव. पार्वणः (भवे । ६-३-१२३ । इ. सु. पर्वन् शब्दात् भवेऽर्थे अणु ( ) ततः सुवृत्तः पूर्णिमासंबंधी इन्दुश्चन्द्रः आपीयत ( यः शिति । ३-४-७० । इ. सू. भावातो' कर्मणि शिद्विपये क्यः । ईञ्जनेयपि । ४-३ - ९७ । इ. सू. क्ये परे श्राधातोराकारस्य दीर्घ ईकार कर्मणि ह्यस्तनी । ) पीयते स्म किंलक्षण इन्दुः रजनीवनच्छवि रजन्या रात्रौ घना बहु छवि कान्तिर्यस्य सः । कुमुदे कैरवे सदा श्रियं शोभां ददान' दत्ते इति ददान | कलाकलापवान् कलानां कलापः स अस्ति अस्येति कलाकलापवान् कलासमूहयुक्तः । ततः तस्मात् कारणात् सुवृत्तः शोभनं वृत्तं यस्य स सुचरित्र । रजनीघनच्छवि रजनी हरिद्रा तद्वत् घना छविः कान्तिर्यस्य स । कुमुदे को पृथिव्याः मुत् हर्षस्तस्यै पृक्रिया हर्षाय सदा श्रियं शोभां ददान | कलाकलापवान् कलानां गीतवाद्यनृत्यगणित पठितलिखितादीनां कलाप समूहस्तद्वान् । एवंविधस्ते तव तनयः पुत्रो भविष्यति ॥ ४७ ॥ दाननस्पर्धि सरोजमोजसा, निमीलयिष्यामि तथाधिकश्रिये । तव श्रयिष्यामि सितातपत्रता-समुक्तमुक्ताभिषदारतारकः ॥ ४८ ॥ "५रं रुजन् राजकमाजिभाजिनं, न राजशब्दं मम मार्टुमर्हसि । इतीव विज्ञापयितुं रहोरया - दुपस्थितोऽयं तनयं तवाथवा ॥ ९४ युग्मम् ( व्या० ) त्वदिति । अथवा अयं चन्द्रस्तव तनयं पुत्रं रह एकान्ते इति विज्ञापयितुमिव रयात् वेगात् उपस्थितः प्राप्त इतीति किं हे स्वामिन् अहं त्वदाननस्पर्धि तव आननं स्पर्धते इति त्वदाननस्पर्धि त्वदीयमुखस्पर्धाकारि सरोजं
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy