SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीजैनकुमारसम्भवाख्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग. ८ (२६९ भद्रङ्करी निर्भर सेवनेन, निद्रावया काचन देवतेयम् । दूरस्थितं वस्तु निरस्तनेत्रा-नप्यङ्गिनो ग्राहयते यदीहा ॥ ५० ॥ (व्या०) भद्र इति । हे प्रिये इयं निद्रावया निद्रा आह्वयं नाम यस्या सा निद्रानाम्नी काचन देवता निर्भरसेवनेन निर्भरं सेवनं तेन भदङ्करी ( हेतुतपछीलानुकूलेऽ२।०३ श्लोककलहंगाथावरचाटुसूत्रमन्त्रपदात् । ५-१-१०३ । इ. सू भद्रपूर्वककृग्धातो. टा टिपात् डीः । ) भद्रं सुखं करोतीति सुखकरी वर्तते । यदीहा यस्या निद्राया ईहा इछ। निरस्तनेत्रानपि निरस्तानि नेत्राणि यैस्ते तान् निरस्तलोचनव्यापारनपि अङ्गिन प्राणिन• दूरस्थितं दूर स्थितं तत् वस्तु प्राहयते । अन्यापि देवता मनसोऽप्यगोचरं वस्तु यतस्ततोऽप्यानीय भक्तन्य दत्ते इति॥५०॥ श्रोतांसि संगोप्य जडानि चेतः, सचेतनं साक्षिरही विधाय । संदर्शयन्ती तव सारभावा-निद्रा धुरं छेकधियां दधाति ॥ ५१ ॥ __(व्या०) श्रोतांसीति । हे प्रिये निद्रा छेकधियां छेका चतुरा धोर्येषां ते छेकधियस्तेषां चतुरबुद्धीनां धुरं भारं दधाति धरति । किं कुर्वती निद्रा जडानि अज्ञानानि श्रोतांसि नव इन्द्रियाणि संगोप्य गोपयित्वा रह एकान्ते चेतश्चित्तं सचेतन चेतनेन सह वर्तते इति सचेतनं साक्षि विधाय कृत्वा तव सारभावान् साराश्चते भावाश्च तान् संदर्शयन्ती संदर्शयतीति संदर्शयन्ती ।। ५१ ॥ एकात्मनोनों परिमुञ्चती मा, सुखप्नसर्वस्वमदत्त तुभ्यम् । निद्रा ननु स्त्रीप्रकृतिः करोति, को वा स्वजातौ नहि पक्षपातम् ॥५२॥ (व्या०) एक इति । निद्रा ननु निश्चितं स्त्रीप्रकृति स्त्री प्रकृतिर्यस्या सा तुभ्यं सुस्वमसर्वस्वं शोभना स्वमा तेषां सर्वस्वं तत् अदत्त । किं कुर्वती एकात्मनो एक आत्मा स्वरूपं ययोस्तौ तयो नौ आवयोः मां परिमुञ्चतो परिभुश्चतोति परिमुवती । वा अथवा हि निश्चितं स्वजातौ स्वस्य नातिस्तस्यां पक्षपात को न करोति अपि तु सर्व कोऽपि ॥ ५२ ॥ दुर्घोषलालाश्चतिदन्तघर्षा-दिकं विकर्माप्यत निद्रया यैः । स्वप्नबजे श्रोत्रपथातिथौ ते, ते खेदतः स्वं खलु निन्दितारः॥५३॥
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy