SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २६२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ।। सर्गः ८ इ. सू. उपात् परस्य कृगः सट । ) शालिसूपपकानघृतपूरादि भोज्यं संस्करोति । भक्ष्यस्य इत्यत्र षष्ठी 'कृगः प्रतियत्ने' इति सूत्रेण ॥ ३० ॥ त्रातस्त्वयि त्राणपरे त्रिधापि, दुःखं न मनाति मुदं मदीयाम् । यं हेतुमायासिषमत्र माया-मुक्तं ब्रुवे तच्छृणु सावधानः ।। ३१ ।। ___(व्या०) त्रात इति। हे त्रातः हे रक्षक त्वयि त्राणपरे त्राणे रक्षणे परस्तस्मिन् सति त्रिधापि त्रिभिः प्रकारैत्रिधा ( सङ्ख्याया धा । ७--२-१०४ इ. सू. त्रिशब्दात् प्रकरिऽर्थे धाराप्रत्ययः । ) त्रिभि प्रकारैरपि आध्यात्मिकाधिभूतिकाधिदैविक्रभेदात् त्रिविधं वा देवमानुपतिर्यकृतं दुख मदीयां मम इथं मदीया तां मम मुदं हर्ष न मनाति न स्फेटयति । यं हेतु येन हेतुना अहमत्र आयासिपमायाता। तदहं मायामुक्तं मायया मुक्तं तत् कपटरहितं ब्रुवे सावधानस्त्वं शृणु ॥ ३१ ॥ क्रियां समग्रामवसाय सायं-तनीमनीषद्धृतिरत्र रात्रौ । अशिश्रियं श्रीजितदिव्यशिल्पं, तल्पं स्वबासौकसि विश्वनाथ ॥३२॥ (व्या०) क्रियामिति । हे विश्वनाथ विश्वस्य नाथस्तस्य संबोधनं अहं सायंतनी ( सायश्चिरं प्राणे प्रगेऽव्ययात् ६-३-८८ । इ. सू. सायमव्ययात् तनटप्रत्ययः रित्वात् डीः ।) सायं भवा सायन्तनी संध्यासंबधिनी समग्रां सी क्रियां अवसाय समापय्य अत्र रात्रौ स्ववासौकसि स्वस्य वासस्य ओकस्तस्मिन् आत्मीयवासभवने तल्पं शयां अशिश्रियमाश्रितवती । किंविशिष्टं तल्पं श्रीजितदिन्यशिल्पं श्रिया शोभया जित दिव्यं शिल्पं विज्ञानं येन तत । किंलक्षणा अहं अनीपधृतिः न ईषत् अनीपद् धृतिर्यस्याः सा बहुसमाधियुक्ता ॥ ३२॥ स्वनाममन्त्राहितदेहरक्षा-निद्रां खकालप्रभवामवाप्य । स्वप्मानिभोक्षप्रमुखानदर्श, चतुर्दशादर्शमुख क्रमेण ॥ ३३ ॥ (व्या०) त्वदिति । हे आदर्शमुख आदर्शों दपंगः माङ्गल्यकारकत्वात् तसदृशं मुखं यस्य स तस्य संयोवनं हे आदर्शमुख अहं पनाममंत्राहितदेहरक्षा (स्वी प्रत्योत्तरपदे चैकस्मिन् २-१-११ इ. सू. । युप्मः एकवचने त्वआ
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy