________________
२५०) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ७
( व्या० ) सा देवी सुमङ्गला हग्भ्यां लोचनाभ्यां नाथं स्वामिनं प्रसुतं दृष्ट्वा पिप्रिये प्रीतिं प्राप । किं कुर्वन्तं नाथं पौपं (तस्येदम् ६-३-१६०। (इ. सू. इदमर्थे प्राजितादण् । ६-१-१३ । इ. मृ. अण् ) पुप्पाणामिदं तत् तल्पं पुष्पशम्यां प्रति परिमलेन उत्तमर्णीमवन्तं परिमलदानं कुर्वन्तं किंविशिष्टं पौप्पं तल्पं जलक्लिनवस्त्रं तोयार्द्रा उच्यते तोयार्द्राया इव तोयार्द्रासच्या या स्वतन्वाः स्वस्य तनुस्तस्याः स्वतन्वा निजशरीरम्य परिचयात् मुक्ताशोषं मुक्त आशोषो येन तत् शोषरहितं किं लक्षणाभ्या दृग्भ्यां व्रीडाव्यपगमऋजुस्फारिताभ्यां व्रीडायाः लज्जायाः व्यपगमेन अभावेन ऋजु सरलं यथा भवति तथा स्फारिताभ्यां विस्तारिताभ्यां किंविशिष्टं नाथं लवणिमसुधां भोनिधिं लवणिमा ( पृथ्वादेरिमन् वा । ७-१-५८ । इ. सू लवणशब्दात् इन् । त्र्यन्तस्वरादेः । ७-४-४३ । इ. सू. अन्त्यस्वरादेर्लुक् । लावण्यं तदेवसुधा अमृतं तस्याः लावण्यसुधाया अंभोनिधि समुद्रस्तम् ॥ ७७ ॥
सूरिः श्रीजयशेखरः कविघटाकोटीरहीरच्छविमिल्लादिमहाकवित्वकलना कल्लोलिनी मानुमान् । वाणीदत्तवरश्चिरं विजयते तेन स्वय निर्मिते,
सर्गों जैनकुमारसंभव महाकाव्ये ऽभवत् सप्तमः ॥ ७ ॥ इतिश्रीमदच्छीयञ्चलगच्छे कवि चक्रवर्त्तिश्रीजयशेखरसूरिविरचितस्य श्रीजैनकुमारसंभवमहाकाव्यस्य तच्छिष्य श्रीधर्मशेखर मह महोपाध्यायविरचितायां टीकायां श्री माणिक्य सुन्दरशोधितायां सप्तम सर्गव्याख्या
समाप्ता ॥ ७ ॥