________________
२१८) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् सर्गः ६॥
स्य भावः शैयम् । ) शीतलत्वं प्रकाश्य प्रादुष्कृत्य लतायां वल्ल्यां मृदुतां कोमल अब्जे कमले ललनैः खेलने सौरभ्यं ( पतिराजा-तगुणाराजादिभ्यः कर्मणि च । ७-१-६० । इ. सू. गुणाङ्गत्वात् सुरभिशब्दात् व्यण सुरभेः भाव: सौरभ्यम् । ) परिमलबहुत्वं प्रकाश्य ।। ५३ ।। वल्ली विलोला मधुपानुष, वितन्वती सत्तरुणाश्रितास्य । पुरा परागस्थितितः प्ररूढा, पुपोष योपित्सु चलत्वबुद्धिम् ।। ५४ ॥
(व्या०) वली इति । वल्ली अस्य भगवत श्रीऋषभदेवस्य योपित्सु स्त्रीषु चलवबुद्धिं चलस्य भावश्चल तस्य बुद्रिस्तां पुपोष । किंलक्षणा वल्लो विलोला चपला पुन: किं कुर्वतो मधुपानुष मधु पिबन्तीति मधुपा (आतोडोऽदावामः । ५-१-७६ । इ सू. मधुपूर्वकपाधातो ड प्रत्ययः । डस्युक्तं कृता । ३१-४९ । इ. सू. समास ) भ्रमरा मद्यपा वा तेषां अनुषङ्ग संसर्गरतं वितन्वती वितनोतोति । पुनः सत्तरुणा संश्चासौ तरुश्च तेन प्रशस्यवृक्षण आश्रिता । अथवा सत्त५ प्रशस्य युवानमाश्रिता । पुरा पूर्व परागस्थितित पगग किंजल्क परं प्रकृष्टं आगः अपराधो वा तस्य स्थितेः पूर्व प्रहामुद्गतां अर्थवशाद्विभक्तिपरिणाम ॥ ५४ ॥ निविश्य गुल्मानि महालतानां, विश्रम्य पत्रधिमिलारुहाणाम् । मंत्वा सदारः सरसां जलानि, कृतार्थयामास कृती बने सः ॥५५॥
(व्या०) निविश्येति । स कृती (इष्टादे । ७-१-१६८ । इ. सू. कृतशब्दात् कर्तरिइन् ।) कृतमनेनेति विद्वान् भगवान् सदार. (सहस्तेन । ३१-२४ । इ. सू. बहुव्रीहिसमास ।) दार सह वर्तते इति स+लत्रः सन् वने वनमध्ये महालतानां (जातीयैकार्थेऽवे. । ३-२-७० । इ सू. समानाधिकरणे उत्तरपदे महतो डा । डिसत्यस्वरादेः इति सू अन्त्यस्वरादिलोपः ।) महत्यश्च ता. लताश्च तासां महावल्लीनां गुल्मानि निविश्य उपविश्य कृतार्थयामास । एतत् क्रियापदं सर्वत्र संबध्यते । इलाहाणां इलायां पृथिव्यां रोहन्तीति इलारुहा वृक्षास्तेषां पत्राणि तेषा नदि ता पत्रसंपद विश्रभ्य कृतार्थयामास ।