SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २१४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ समूहरा उल्लासयन्ती पक्षे सुमनसः पुष्पाणि तेषां समूहमुलासयन्ती । पुनः सदा सर्वदा आलिप्रियतां प्रियस्यभावः प्रियता आलीनां सखीनां प्रियता प्रियत्वं तां उपेता पक्षे अलयो भ्रमरास्तेषां प्रियतामुपेता प्राप्ता । पुन. सत्परपुष्टघोपा सत्सु साधुषु पर प्रकृष्टः पुष्टो घोषः प्रसिद्धिरूपो यस्या. सा पक्षे सन् विद्यमानः परपुष्टानां कोकिलानां घोष. शब्दो यस्यां सा ॥ ४४ ।। संयोज्य दोषोच्छयमल्पतायां, शुचिप्रभां प्रत्यहमेधयन्ती। तारं तपः श्रीरिव सातिपदवी, जाड्याधिकत्वं जगतो न सेहे ॥४५॥ (व्या०) संयोज्येति । सा सुमंगला तारमत्यर्थ तप:श्रीरिव ग्रीष्मलक्ष्मीरिव ज्येष्ठाषाढसकतुरिव जगतो विश्वस्य जाड्याधिक जडस्य भावो जाड्यं तस्याधिकत्वं तत् मूर्सचं जलाधिकत्वं वा न सेहे । किं कुर्वती दोषोच्छ्रयं दोषाणां दूषणानामुम्छयोविस्तारस्तं पक्षे दोषा रात्रिस्तस्या उच्छायो विस्तारतं अस्पतायां अल्पस्य भाव अल्पता तस्यां संयोज्य प्रत्यहं (योग्यतावीप्सार्थानतिवृत्तिसादृश्थे । ३-१-४० । इ. सू. वीप्सायाम०ययोभाव । अहः अह प्रति इति प्रत्यहम् ।) निरन्तरं शुचिप्रभां शुचिर्निमला प्रभा यस्याः सा तां पक्षे शुचे: मूर्यस्य प्रभा तामेवयन्ती वर्धयन्ती पुन• अतिपदवी ( स्वरादुतोगुणादखरो. । २-४३५ । इ. सू. स्त्रियां अतिपटुं शब्दात् विकल्पेन डी ) विदुषी पक्षे अतिशयेन पट्वी तीवा ॥ ४५ ॥ परांतरिक्षोदकनिष्कलंका, नाम्ना सुनन्दा नयनिष्कलङ्का । तस्मै गुणश्रेणिभिरद्वितीया, प्रमोदपूर व्यतरद् द्वितीया ॥४६॥ (व्या०) परा इति । तस्मै भगवते श्रीषभाय परा अन्या नाना सुनन्दा द्वितीया (द्वेस्तीयः । ७-१-१६५ । इ. मू. द्विशब्दात् संख्यापूरणेऽथै तीयप्रत्ययः | आत् इति सूत्रेण आपि कृते द्वितीया । ) कलत्रं प्रमोदपूरं प्रमोदस्य हर्षस्य पूररतं व्यतरत् ददौ । किंलक्षणा सुनन्दा अन्तरिक्षोदकनिष्कलका अन्तरिक्षस्य आकाशस्य उदकं जलं तद्वत निष्कलका निर्मला पुनः नयनिष्कलका नय एव निष्कं सुवर्ण तस्य लंका तस्यां हि लंकायां सुवर्ण प्रचुर पुन गुण
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy